________________
धर्म
संग्रहणिः
॥२४७॥
सागारमणागारं उभयाणुभयं व होज णाणंपि ? ।
गाहगपमाणविरहा ण संगतं सवपक्खेसु ॥ ६६६ ॥ आस्तां तावदन्यत् , यद्विज्ञानं त्वयाऽभ्युपगम्यते तत्किं साकारमनाकारम् उभयं-साकारानाकारम् अनुभयं वान साकारं नाप्यनाकारं भवेदिति विकल्पचतुष्टयं, गत्यन्तराभावात् । नचैतेषु सर्वेष्वपि पक्षेषु तत् ज्ञानं संगतम् । कुत इत्याह-तद्वाहकप्रमाणाभावात् ॥ ६६६ ॥ सोऽपि कथं सिद्ध इति चेत् अत आह
नाणंतरं न इंदियगम्मं तग्गाहगं कुतो माणं ?।
एमादि हंहि तुल्लं पायं विन्नाणपक्खे वि ॥ ६६७ ॥ ग्राहकप्रमाणं प्रमेयत्वेन विवक्षितं ज्ञानमेव ग्राहकज्ञानापेक्षया ज्ञानान्तरं तच्चातीन्द्रियत्वान्नेन्द्रियगम्यं तत्कथं तद्वा-| हकं प्रत्यक्षं प्रमाणं भवेदित्येवमादिकमादिशब्दाद् 'अविगाणाभावाओ न जोगिनाणंपि जुत्तिखममित्यादि' परिगृह्यते, 'हंदीति' परामन्त्रणे प्रायो विज्ञानपक्षेऽपि तुल्यमतो ज्ञानेन सह तुल्ययोगक्षेमत्वात् ज्ञानवत् बाह्योऽप्यर्थोऽभ्युपगन्तव्यो| न वा ज्ञानमपि ॥ ६६७ ॥ अभ्युचयेन प्रतिविकल्पं दोषान्तरमभिधित्सुराह
किं चागारो तस्सा किमंगभूतो उआहु विसयातो ? ।
॥२४७॥
Jain Education
For Private 3 Personal Use Only
A
N
jainelibrary.org