________________
रजौ-दर्भादिदवरके यत् सर्पज्ञानमुपजायते तस्मान्मोहस्तस्माच मोहात् भयादयो दोषाः । मकारोऽलाक्षणिकः। आदिशब्दात्तत्संस्पर्शनेन हृदयोत्कम्पविह्वलतादिदोषपरिग्रहः । त एव-भयादयो दोषाः तज्ज्ञाने-'रज्जुरियं न सर्प इति विज्ञाने न भवन्ति । 'तत्तो यत्ति' तस्माच भयादिदोषाभावात् सुखसिद्धिरेष दृष्टान्तः ॥ ६६४ ॥ अमुमेवार्थ दार्शन्तिके योजयन्नाह
बज्झत्थे विन्नाणं मोहो रागाइया तओ दोसा ।
ते चेव उ तन्नाणे म होन्ति तत्तो व मोक्खसुहं ॥ ६६५ ॥ | बाह्यार्थे यद्विज्ञानं तत्सत्त्वसाधनप्रवणमुपजायते तत मोहो, बाह्यार्थस्य युक्त्याऽनुपपद्यमानत्वात् , तस्माच मोहात्तद्विषयां रागादयो दोषाः प्रादुष्ष्यन्ति । "मोहो निदानं दोषाणामि"तिवचनात् । त एव तु रागादयो दोषास्तज्ज्ञानेनास्त्यसौ बायोऽर्थ इति बाद्यार्थयाथात्म्यपरिज्ञाने न भवन्ति, मोहाभावात् , ततश्च तस्माच-रागादिदोषाभावात् मोक्षसुखम् । तस्मान्मोहस्यैव संसारनिवन्धनत्वात् तत्परिक्षयनिमित्तं सोऽवश्यं वर्जयितव्यः॥ ६६५॥ तदेवं ज्ञानवादिनाऽभिहिते सत्याचार्योऽभिहितपरमाण्वादिविकल्पेषु दोषामा विवक्षुरपि परपक्षस्यातीवासारतामुपदर्शयितुकामो यथाभ्युपगम परस्य प्रतिबन्दि(न्दी)ग्रहेण तावडूषणमाह
धर्म. ४२।।
For Private & Personal Use Only
TRww.jainelibrary.org