SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ धर्म. संग्रहणिः ॥२४६॥ न्तरं तदपि तेन व्यवच्छिद्यते, तस्य तदभावाव्यभिचारित्वात् , चतुरश्रा(स्रावयवि द्रव्यरूपं चैकमभ्युपगम्यते ततो यदेव तद्रूपं प्राग्देशेन व्याप्तं तदेव तदभावेनापि व्याप्तमित्यायातं, तस्य प्रत्यग्देशेनापि व्याप्त्यभ्युपगमात्, अन्यथा तस्यावयविद्रव्यरूपस्य चतुरश्र(स्र)स्य एकत्वाभ्युपगमक्षितिप्रसङ्गात् , प्रत्यगदेशस्य च प्राग्देशाभावोपेतत्वात् , न चैतद्युक्तम् , एकत्र विधिप्रतिषेधयोर्युगपदसंभवात् । तन्न कश्चित्परपरिकल्पितोऽवयवी घटते इति ॥ ६६२ ॥ उपसंहारमाह इय जुत्तिविरहतो खलु बुहेण बज्झत्थसत्तमिति मोहो । संसारखयनिमित्तं वजेयवो पयत्तेणं ॥ ६६३ ॥ इतिः-एवं प्रदर्शितप्रकारेण युक्तिविरहतः खलु बाह्यार्थसत्त्वमिति-बाह्यार्थोऽस्तीति विज्ञानं मोहः, स च बुधेन संसारक्षयनिमित्तं 'संसारक्षयो मम भवतु' इत्येवमर्थ प्रयत्नेन वर्जयितव्यः, मोहस्य संसारनिवन्धनत्वात् ॥ ६६३॥ तथा चाह रज्जुम्मि सप्पणाणं मोहो भयमादिया ततो दोसा। ते चेव उ तन्नाणे ण होन्ति तत्तो य सुहसिद्धी ॥ ६६४ ॥ 1c% CRACCORADASASARAMMAR ॥२४६॥ For Private Personal use only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy