SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Jain Education ऽसमवायिकारणं निवर्त्यते, तस्मिंश्च निवर्त्तिते सति अवयविनो विनाशप्रसङ्गः, निमित्तकारणं हि तन्तुवायादिकं निवर्त्तमानं पटादिकं न निवर्त्तयति, यत्तु असमवायि कारणं संयोगः समवायिकारणं तु तन्त्वादि तन्निवर्त्तमानमवश्यं निवर्त्तयतीति । तथा एकस्यावयवस्यावरणे सर्वस्याप्यावरणप्रसङ्गः, आवृतैकावयवस्थावय विरूपादवयवान्तरस्थस्यावयविरूपस्याभिन्नत्वात्, अथानावृतावयवस्थमवयविरूपमनावृतमिव दृश्यते इति मन्येथाः, ननु तर्हि दृश्यमानावयविरूपाव्यतिरेकादावृतावयवस्थमप्यवयविरूपं दृश्येत, अन्यथा तयोर्भेदप्रसङ्गात्, अवयवस्यावरणं नावयविन इति यथोक्तदोषाभाव इति चेत् ? एवं तर्हि प्रभूतावयवावरणेऽपि तस्यानावृतत्वात् अनावरणावस्थायामिव | सर्वात्मना दर्शनप्रसङ्गः । अथोच्येत - अवयवद्वारेणावयविनो दर्शनमित्यदृष्टावयवस्याप्रतिपत्तिरिति, तदयुक्तम्, आतावयवस्थानावृतावयवस्थावयविरूपयोरभेदेन सर्वात्मना प्रतिपत्तिप्रसङ्गस्य परिहर्तुमशक्यत्वात् । न चार्वाग्भागापरभागादयः सर्वेऽप्यवयवा युगपदुपलब्धुं शक्यन्ते, ततोऽवयवदर्शनद्वारेणावयविनो दर्शनाभ्युपगमे सर्वदैवास्यादर्शनप्रसङ्गः, रक्ते चैकस्मिन्नवयवे तत्स्थस्यावयविरूपस्यावयवान्तरेऽप्यभेदेन भावात् सर्वत्रापि रागप्रसङ्गो न वा क्वचिदपि । | अवयवस्य रागो नावयविन इति चेत् ? नन्वेवं तर्हि अवयवरूपं रक्तमवयविरूपं चारक्तमित्येवं रक्तारक्ततयोपलम्भः स्यात्, न चासावस्तीति बालिशजल्पितमेतत् । अपि च, चतुरश्रा (स्रा ) वयवि द्रव्यं येन प्राग्देशेन व्यासं तं प्राग्देशं परिच्छिन्दता प्रत्यक्षेण तस्याभावो व्यवच्छिद्यते, अन्यथा स एव परिच्छिन्नो न भवेत्, यदपि च प्रत्यग्लक्षणं देशा tional For Private & Personal Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy