________________
धर्म
॥२४५॥
Jain Educatio
परमाणुरित्यादिवचनात्,” ततश्च यदि प्रागवयविनो व्यणुकादेर्न जनकास्ततः पश्चादपि तत्स्वभावानिवृत्तेरजनका एव, अन्यथा प्रागपि ते जनयेयुरिति । अपि च, यदि खारम्भकावयवेभ्योऽवयवी भिन्नः समुत्पद्यते ततः पञ्चपलपरिमाणसूत्रपिण्डादेः पटादिरूपार्थान्तरावयविनिष्पत्तौ तस्यापि महत्त्वेनाभ्युपगमात् तोलने तुलानतिविशेषो गृह्येत, न च गृह्यते, तत्कथमास्था तत्र विदुषाम् ? । अथोच्येत - यथा जलान्मत्स्यस्य काष्ठाद्वा घुणस्यार्थान्तरभूतस्योत्पत्तावपि न जलादितोलने तुलानतिविशेषो भवति, जलादिना मत्स्यादिगुरुत्वस्य प्रतिबन्धात्, तथा पटादिरूपावयविगुरुत्वस्यापि सूत्र पिण्डादिना प्रतिहतत्वात् न तत्तोलने तुलानतिविशेषो भवतीति, तदप्ययुक्तम्, दृष्टान्तदार्शन्तिकयोर्वैषम्यात्, मत्स्यादयो हि न सकलं जलादिकमभिव्याप्यावतिष्ठन्ते किंतु तदेकदेशं, ततोऽपान्तरालस्खलनेन जलादिना तद्गुरुत्वप्रतिबन्धसंभवात् तत्र तुलानतिविशेषो न भवति, अयं च पुनरवयवी सर्वानपि स्वावयवानभिव्याप्यावतिष्ठते ततः स्वावयवैरपान्तरालस्खलनाभावेन तद्गुरुत्वप्रतिबन्धायोगादवश्यं तोलने तुलानतिविशेषो भवेत्, न च भवति, तस्मान्नावयवी कश्चिदर्थान्तरभूतः स्वावयवेभ्यः समुत्पद्यत इति । अन्यच्च, असौ पटादिकोऽवयवी एकोऽभ्युपगम्यते ततस्तदेकदेश चलने सर्वस्यापि पटादेश्चलनप्रसङ्गः, तस्यैकखरूपत्वात्, अचलने वा चलाचलत देकदेशयोर्विरुद्धधर्म्मसंसर्गाद्भेदप्रसङ्गः, न च वाच्यमत्रावयवश्चलनक्रियावान् नावयवी, ततो नोक्तदोषावकाश इति, अवयविनो विनाशप्रसङ्गात्, तथाहि - अवयवेषु चलनक्रियावत्सु विभागो जायते, तेन च विभागेन संयोगो
tional
For Private & Personal Use Only
संग्रहणिः
॥२४५॥
X www.jainelibrary.org