________________
Jain Education
" न च स्वदानपोषार्थमुक्तमेतदपेशलम् । हरिभद्रो ह्यदोऽभाणीद् यतः संनिपाक्षिकः ॥”
— इति पथमरीरचन् । तदिदं प्रमाणविरहितमसंभवप्रायं च नाऽस्मद्बुद्ध्यादर्शे प्रतिफलति । प्रत्यषेधि च जिनदत्तसूरिभिरप्येतद् गणधरसार्धशतके । तथा च तत्रत्या गाथा
" जं पर केई समनामभोलिआ भोऽलिआई जंपंति । चीया ( य ) वासिदिक्खिओ सिक्खिओ य गीयाण तं न मेयं ॥ ५७ ॥"
सहस्रयोधिनौ हंस - परमहंसनामानौ हरिभद्रशिष्यावपि परामत्र चरित्रलेशे वीर - करुणात्मकस्य रसयुग्मस्य पुष्टिमादधाते । तौ हि सूरीणां भागिनेयौ दीक्षितशिष्यौ च । अन्यदा तौ गुरुषु निराकुर्वाणेष्वपि बौद्धमततर्कानधिगन्तुमनसौ कापि सौगतवसतावत्राजिषातामध्यगीषातां च कियतापि समयेन तन्मतरहस्यभूतान् सिद्धान्ततर्कान् । प्रकटितायां च तत्र कथमपि स्वव्याजवृत्तौ ततः प्रणश्यन्तौ पश्चादाप-
१ - यं प्रति केचित् समनामभ्रमितां भो अलिकानि जल्पन्ति । चैत्यवासिदीक्षितः शिक्षितश्च जीतानां तन्न मतम् ॥ ५७ ॥” २- गणधर सार्धशतकबृहद्वृत्तौ तु "अन्नया तेण नियमइपगरिसनिजि असुरगुरुणा दिक्खिआ दुवे रायपुत्ता" - इत्यनेन हंस - परमहंसयो राजपुत्रत्वमभिहितम्, एतच्च तयोः सहस्रयोधित्वश्रवणेन तत्सांगव्यापादनाय तदनुरूपत्वेन कल्पितं चेत्तदाऽनावश्यकमेव । विप्रेष्वपि युद्धकलासं|भवेनेतिहासविघटिकायाः कल्पनाया निरर्थकत्वात् । ३ - इयं वसतिर्भोटदेशे आसीदिति कश्चित् । ४- अत्रत्यं विवरणलेशं प्रबन्धकोशे तत्कर्तारः -
For Private & Personal Use Only
ww.jainelibrary.org