________________
ग्रन्धकार
॥ ७ ॥
Jain Education
एते सूरिवृषभा जिनप्रवचनस्य किंकिंविधान्महोपकारानकृषत इति पृच्छायाः प्रतिवचने तु एतद्रचितग्रन्थगणं बौद्धपराजयं वा विमुच्य नान्यदसामान्यं कारणमुपदर्शयितुं पारयामः । हन्त ! महदेवास्मद्दुर्भाग्यविलसितमिदम्, नैतादृशामपि पुरुषरत्नानां समर्थां अपि पूर्वकवयः कथेतिवृत्तलेखकाश्च यथायथमामूलचूलजीवनव्यतिकराणि चरितानि लिलिखुरिति शिलोष्छवृत्तिरेवात्र समादरणीया भवति । जैनज्ञातिवंशवृत्तलेखकपुस्तकेंषु तु एतत्कृता मद्दत्येव शासनसेवा प्रतिपाद्यते । तत्र हि "मेदपाटदेशे हरिभद्रसूरिभिः प्राग्वाट ( पोरवाड) वंशस्य स्थापना विहिता तद्वंश्याश्च जैनधर्माभिरताः” इत्यादयः समुल्लेखाः विलोक्यन्ते, ते च यदि सत्यमेव सत्यस्पर्शिनस्तर्हि जैनधर्मस्य विशेषतश्च प्राग्वाटज्ञातीयजैनानां - बहूपकृतमेतैरित्यवश्यमेव वक्तव्यं स्यात् ।
केचित्तु —
"सावयजणमुहपत्ति (त्तिं) चरवलो ( चरवलयं) समय संघसंजुत्ता। हरिभद्दसूरिगुरुणा (णो ) दशपुरनयरंमि ठावेइ (वेंति ) ”
इति गाथां पठन्तः श्रावकजनस्य मुखवस्त्रिका - रजोहरणस्थापका अपि हरिभद्रसूरय इति प्रतिपादयन्ति एतच्च न सत्यमाभाति, तत्प्राचीनेष्वपि आवश्यकचूर्ण्यादिषु श्राद्धानां मुखवस्त्र - रजोहरणयोरुपादेयत्व स्वीकारात् ।
इदमप्यासीदेतद्विषयकं केषांचित् प्राचामभिमतम् - यदेते सूरयः संविग्नपाक्षिकाः समभूवन् । इदमेवाभिप्रेत्य यशोविजयगणयोऽपि दानद्वात्रिंशिकायाम्
१ - "श्रावकजनमुखवस्त्रिका (कां) रजोहरणं समयसंघसंयुक्ताः । हरिभद्रसूरिगुरुणा (रख :) दशपुरनगरे स्थापयन्ति ( स्थापयन् ) ।”
1
For Private & Personal Use Only
জ ছ %
परिचयः
॥ ७ ॥
www.jainelibrary.org