________________
धर्म. प्र. ३
चार्यजिनभटस्य" इत्यभिधानं सामान्यगोचरम् इदं पुनर्विशेषविषयम् – “जिनभटनिगदानुसारिणो जिनदत्त शिष्यस्य " इति । एतत्संवादि चेदमन्त्रानुसंधेयं हारिभद्रमेव वच:
" एयं (वं) जिणदत्तायरियस्स उ अवयवभूएण चरियमिणं । जं विरइऊण पुनं महाणुभावचरियं मए पत्तं ॥ तेणं गुणाणुराओ होइ (उ) सुहं सबलोयस्से । "
एतेन–“महत्तरोपदेशात् श्रीजिनभद्राचार्यपादमूलमवसर्पन् ” – इत्यादिलेखकप्रमादसंपन्नपाठदर्शनेन कैश्चिद् जिनभद्रसूरीणां हरिभद्रगुरुत्वमभिमन्यते तदपि निराकृतं भवति । हरिभद्रवचनानामेव तत्परिपन्थित्वात् ।
एते कृतिमुख्या हरिभद्रसूरयो जैनधर्मप्रात्यनन्तरमेव तत्त्वतः स्वं जन्म मन्यमानास्तन्निमित्तं च तां गणिनीं विदन्तः “धर्ममातेयम्” इत्यभिप्रेत्य स्वं तस्या धर्मपुत्रत्वेन वर्णयन्तः समदर्शयन् निजकृतज्ञताचिह्नम् । अमुना च सूरिभिः प्रतिपन्नेन मातृ - पुत्रत्वव्यवहारेण इदमप्यनुमातुं शक्यते - ' पूर्वे वयसि ते जैनसाधुतामाचरन्' इति । पूर्वोक्तव्यवहृतेस्तत्रैव शोभास्पदत्वेन स्वीकारसंभवात् । एवं च वक्ष्यमाणसंख्याकप्रन्थरचनापि संगतिमापद्यते इति ।
१ - एतद् (i) जिनदत्ताचार्यस्य तु अवयवभूतेन चरितमिदम् । यद् विरचय्य पुण्यं महानुभावचरितं मया प्राप्तम् ॥ तेन गुणानुरागो भवति (तु) सुखं सर्वलोकस्य ।" समरादित्यकथाप्रान्तभागस्येयं सार्धगाथा |
For Private & Personal Use Only
ww.jainelibrary.org