________________
ग्रन्थकार
॥ ६ ॥
Jain Education Inte
“हयकुसमयभडजिणभडसीसो सेसु व धरियतित्थधरो । जुगपवर जिणदत्तपहुत्तमुत्ततत्तत्थरयण सिरो ॥ इत्येतया गणधर सार्धशतकगाथया,
“आचार्यजिनभटस्य हि सुसाधुजनसेवितस्य शिष्येण । जिनवचनभावितमतेर्वृत्तवतस्तत्प्रसादेन ॥ किञ्चित्प्रक्षेपसंस्कारद्वारेणैवं कृता स्फुटा । आचार्यहरिभद्रेण टीका प्रज्ञापनाश्रया ॥"
इत्यादिहरिभद्रसूरिवचनेन चेहामीषां जिनभटदीक्षितत्वमुल्लिखितम् । वस्तुतस्तु जिनभटसूरीणां हरिभद्रगुरुत्वेऽपि न तद्दीक्षादायकत्वम् । “समाप्ता चेयं शिष्यहिता नामावश्यकटीका । कृतिः सिताम्बराचार्यजिनभट निगदानुसारिणो विद्याधर कुलतिलकाचार्यजिनदृत्तशिष्यस्य धर्मतो याकिनीमहत्तरासूनोरल्पमतेराचार्यहरिभद्रस्य ।" इत्यनेन "अल्पमति" विशेषणान्यथानुपपत्त्या स्वस्य हरिभद्रकर्तृकतां ख्यापयता आवश्यकटीकान्तस्थेनोल्लेखेनैतेषां जिनदत्तशिष्यत्वाभिधानात् । “जिनभटनिगदानुसारिणः" इत्यनेन जिनभटसूरीणामप्याज्ञाकर्तृत्व निवेदनाच्च "आचार्यजिनभटस्य हि” इत्यादिनोदितं जिनभटशिष्यत्वमपि न व्याहन्यते, आज्ञाकारिष्वपि गुरुत्वव्यवहारस्य दृष्टत्वात् । ततश्च "आ
१ “हतकुसमयभटजिनभटशिष्यः शेष इव धृततीर्थधरः । युगप्रवरजिनदत्तप्रभूक्तसूत्रतत्त्वार्थरत्नशिराः ॥” २ प्रज्ञापनाप्रदेशव्याख्याप्रान्ते | ( किल्हार्नकृतकार्यविवरण [रिपोर्ट ] पुस्तक पृ. ३१) । ३ पूज्यपाद पं. श्रीसिद्धिविजयगणीनामावश्यक पुस्तके – “संवत् १५४९ वर्षे श्रीमण्ड पमहादुर्गे वा० सोमध्वजगणिभिः आवश्यक बृहट्टीका लेखयांचक्रे" इत्युलेखान्विते पाठोऽयम् ।
For Private & Personal Use Only
परिचयः
॥ ६ ॥
elibrary.org