________________
Jain Education Intern
अथैते सूरिवराः कदाचित् -
“चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की | केसव चक्की केसव दुचक्कि केसी अ चक्की ये ॥"
इतीमां याकिनीसाव्या पठ्यमानामावश्यकनिर्युक्तिगाथामाकर्ण्यपि तदर्थमनधिगच्छन्तः “सत्यप्रतिज्ञा भवन्ति सतां व्यवहारा: " इत्यभियुक्तोक्ति सुदृढमवलम्बमानाः “स्वीकरोतु भगवती स्वशिष्यभावेन माम्" इति तस्यै गणिन्यै समयाचत, इत्यादि निगदितप्रायमेव, कथाविस्तरस्त्वन्यत्र विलोकनीयः । इह तु समालोचनमात्रमभिलषितम् । सा च एवं निगदतस्तान् जिनभटनामभृतां स्वगुरूणां पार्श्व प्रास्थापयत् । ते च तानदीक्षयन्निति । इदं च —
“दिवसगणमनर्थकं स पूर्वं स्व (स्वक) मभिमानकदर्थ्य मानमूर्त्तिः । अमनुत स ततश्च मण्डपस्थं जिनभटसूरिमुनीश्वरं ददर्श ॥ अथ जिनटसूरिरत्र कोपाद्भुतमिह शिष्यजने निजे निशम्य । उपशमनविधौ प्रवृत्तिमाधादिह हरिभद्रमुनीश्वरस्य तस्य ॥”
इत्यादिना प्रभावकचरित्रस्य पद्यकदम्बकेन,
१ “चक्रिद्विकं हरिपञ्चकं पञ्चकं चक्रिणां केशवश्चकी । केशवश्चकी केशवो द्वौ चक्रिणौ केशवश्च चक्री च ॥”
For Private & Personal Use Only
inelibrary.org