________________
प्रम
| संग्रहणि
॥२४४॥
+ESCRDSCALAMAUSAMRAGAR
देशता अवयविनो युक्ता नान्यथा, ततो नाभिन्नदेशतायां तावणू भिन्नौ भवितुमर्हतः ॥६५७॥ पूर्वार्द्धम् , एवं च
सति अण्वोरवयिनः सकाशाद्भेदाभावे सति द्विप्रदेशिकावयविवत् अण्वोरपि अनित्यत्वं सप्रदेशत्वं च खतन्त्राभ्युपगद्रमविरोधि प्राप्नोतीति ॥ ६५८ ॥ अत्रार्थवादिनां मतमपाकर्तुमाशङ्कमान आह
सिय अवयवी अमुत्तो जं ता तदभिन्नदेसयाए वि ।
आगासेण व दोसा अणिञ्चमादी कुतो नूणं? ॥ ६५९॥ __सादेतत् , यत्-यस्मादमूर्तोऽवयवी 'ता' तस्मात् तदभिन्नदेशतायामपि-आकाशेनेव तेनावयविना सह अभिन्नदेशतायामपि अणुद्वयस्य कुतो नूनमनित्यत्वादयो दोषाः प्राप्नुवन्ति ?, नैव कुतश्चिदिति भावः॥ ६५९॥ अत्राह
हंत अमुत्तत्तम्मिवि आगासस्सेव अणुवलंभो से।
पावति तदभेदातो इतरस्सवि अहव उवलंभो ॥ ६६० ॥ यद्यप्यनित्यत्वादिदोषप्रसङ्गभयादमूर्तोऽवयवी अभ्युपगम्यते तथापि अमूर्तत्वेऽपि 'हन्तेति' परामत्रणे 'से' तस्यावयविन आकाशस्येवानुपलम्भः प्राप्नोति, अथवा इतरस्यापि-आकाशस्य अवयविन इव उपलम्भः प्राप्नोति । कुत इत्याह-तदभेदात्-तयोरमूर्त्तत्वाभिन्नदेशत्वयोरुभयत्राप्यभेदात्-अविशेषात् ॥६६०॥ अत्रार्थवादिनो मतमाह
॥२४४॥
For Private Personel Use Only
draww.jainelibrary.org