________________
Jain EducationXCE
पत्तेयं व अगहणं पावइ इय समुदिताणंति ॥ ६५२ ॥
अथ मन्येथा न परस्पररूपप्रवेशलक्षणः परमाणूनां संयोगः, किंतु परस्परप्रत्यासन्नत्वमेव, तथा च सति न पूर्वोतदोषावकाश इति । अत आह- 'पत्तेयं वेत्यादि' वशब्द उपमायाम्, यदाह वररुचि:- “पिव- मिव- विव- इवार्थे वश्चेति" । प्रत्येकमिव - केवलानामिव समुदितानामपि खखरूपनियतत्वात् तेषामग्रहणं प्राप्नोति ॥ ६५२ ॥ अपिच, हाणी अणुत्तस्सा दिसिभेदातो णयन्नहा घडति । सिमिहो पच्चासन्नतत्ति परिफग्गुमेयंपि ॥ ६५३ ॥
यदि परस्परं प्रत्यासन्नत्वं संयोग इष्यते ततो दिग्भागभेदतोऽवश्यं दिग्भागभेदसंभवतो हानिश्चाणुत्वस्य प्राप्नोति । 'नयेत्यादि' चो हेतौ । यस्मान्न अन्यथा - दिग्भागभेदमन्तरेण तेषामणूनां मिथः - परस्परं प्रत्यासन्नता घटते । तथाहिएकस्य परमाणोः सर्वासु दिक्षु तदपरपरमाणुभावेन मिथस्तेषां प्रत्यासन्नत्वं तथाच सत्यवश्यं दिग्भागभेद संभवस्तस्माच्च परमाणुत्वक्षितिरित्येतदपि समुदायपरिकल्पनं परिफल्गु असारमिति ॥ ६५३ ॥ अवयविपक्षमधिकृत्याह
१ प इति खपुस्तके |
For Private & Personal Use Only
www.jainelibrary.org