________________
'गाहगं कह सिद्धं' यद्यर्थाकारपरिस्फूत्तिर्ज्ञाने नाभ्युपगम्यते ततः कथं तत् ज्ञानमर्थस्य ग्राहकं सिद्धं ?, नैव सिद्धमितिभावः । अर्थग्राहकत्वनिबन्धनविशेषाभावात् । अस्तु वा निराकारमपि सत् अर्थस्य ग्राहकं तथापि तत्तस्यैवार्थस्य ग्राहकं नत्वन्यस्येत्यत्र को हेतुः१, नैव कश्चनेत्यर्थः, तत्सत्तामात्रस्य सर्वानान् प्रति अविशिष्टत्वात् ॥ ६४८ ॥ अत्र परो विशेषमाह
तेणेव जतो जणितं किमेत्थ माणं? तदत्थपडिवत्ती।
सा किं नाणाभिन्ना ? आममपुबो इमो मोहो ॥ ६४९ ॥ | यतो-यस्मात्तेनैव अर्थेन तत् ज्ञानं जनितं नत्वन्येन, तत्कथमन्यस्यापि तद्वाहकं भवेत् १ । अत्राह-ननु तेनैवार्थेन 8 इदं विज्ञानं जनितं नत्वन्येनेत्यत्र किं मान-प्रमाणं?, नैव किंचनेति भावः । अथोच्येत तदर्थप्रतिपत्तिरेव प्रमाणम् , तथाहि-सोऽर्थस्तेन ज्ञानेन प्रतिपद्यते न च सा प्रतिपत्तिस्ततोऽर्थादुत्पत्तिमन्तरेणोपपद्यत इति । अत्राह-'सा किं नाणेत्यादि' ननु सा-प्रतिपत्तिः किं ज्ञानाद्भिन्ना?, येनैवमुच्यते अर्थप्रतिपत्त्या ज्ञानस्य तजनितत्वं गम्यते तस्माच प्रतिकर्मव्यवस्थेति, नैव भिन्ना, किंतु साज्ञानमेव, तचाद्यापि दुःस्थितमित्यामम्-अतिशयेनापूर्वो मोहो येन प्रेक्षावानपि भवानित्थमसंबन्धं भाषत इति ॥ ६४९ ॥
Join Education D
en
For Private
Personal Use Only
w.jainelibrary.org