________________
धर्म-18
संग्रहणिः,
॥२४॥
KHESAROSAROO
तस्मिंश्च-नीलाद्याकारोपेतज्ञानखरूपमात्रे वेद्यमाने कथमन्यस्यापि पीतस्य प्रतिपत्त्या हेतुभूतया न जायते अति- प्रसङ्गः?, जायत एवेति भावः, नियामकाभावात्। 'तुलुत्ताउत्ति' स्यादेतत्, तत् ज्ञानं न पीतेनार्थेन तुल्यं किंतु नीलेन ततस्तेनैव सह तुल्यत्वात् तस्यैव प्रतिपत्तिर्भविष्यति न पीतस्येति नातिप्रसङ्गः। अत आह-तयमसिद्धति' तत्-तुल्यत्वमसिद्ध, तुल्यत्वसिद्धरुभयग्रहणनिवन्धनत्वात् , तस्य चोभयग्रहणस्याभावादिति ॥६४६ ॥ अपि च,
तुल्लत्तं सामन्नं एगमणेगासितं अजुत्ततरं।
तम्हा घडादिकजं दीसइ मोहाभिहाणमिदं ॥ ६४७ ॥ | तुल्यत्वं-तुल्यरूपत्वं सामान्यं, तञ्च एकम्-एकरूपं सत् अनेकाश्रितं-ज्ञानार्थोभयाश्रितमित्ययुक्ततरम् , एकस्यानेकाश्रितत्वायोगात् , अन्यथैकत्वक्षतेः। तस्मात् परमाणूनां कार्य घटादि दृश्यत इति मोहाभिधानमिदम् ॥ ६४७॥
अह उ निरागारं चिय विन्नाणं गाहगं कहं सिद्धं ?।
भावम्मिवि तस्सेव उ ण उ अन्नस्सत्ति को हेतू ? ॥ ६४८॥ अथैतदोषभयात् एवमुच्येत-न साकारं ज्ञानं किंतु निराकारमेव सत् बाह्यस्य घटादेः परिच्छेदकमिति । अत्राह
RI
॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org