________________
MAHARANA
भ्यमानस्य घटादिकार्यस्य धणुकादियोगं विहाय-द्यणुकत्र्यणुकाद्यतिरेकेण सत्ता भवति, ततो घटादिकमवश्यं परमाणूनां कार्यमित्यवगन्तव्यम् । तथा च सति परमाणवः कार्यगम्याः सिद्धा एव ॥६४०॥ अत्र ज्ञानवादी दूषणमाह
कह दीसतित्ति वच्चं ? जायइ संवेदणं तदागारं ।
दोण्हवि एगत्तं इय तस्साणागारभावो वा ॥ ६४१ ॥ कथं घटादिकं दृश्यते इति वाच्यं?, किमत्र वाच्यं?, यतोजायते संवेदनं तदाकारं-घटादिरूपार्थाकारं ततस्तत् दृश्यत इत्युच्यते इति चेत् आह-'दोण्हवि एगत्तं इयत्ति' इति-एवं सति संवेदनस्याकारत्वे सतीतियावत् द्वयोरपि-ज्ञानार्थयोरकत्वं प्राप्नोति, तथाहि-संवेदनमकारमभ्युपगम्यते ततोऽर्थस्याकारो यस्मिन्वेदने तत् अर्थाकारमिति संवेदनस्यार्थाकाराभिन्नत्वात् द्वयोरप्येकत्वं प्राप्नोत्येवं 'तस्साणागारभावो वत्ति' यद्वा तस्यार्थस्यानाकारभावः प्राप्नोति, तदाकारस्य संवेदने संक्रान्तत्वात् ॥ ६४१॥ एतदेव दूषणद्वयं सप्रपञ्चं भावयन्नाह
सो खलु तस्सागारों भिन्नोऽभिन्नो व होज ? जति भिन्नो ।
तस्सत्ति को णु जोगो ? इतरम्मि तु उभयदोसोत्ति ॥ ६४२ ॥ स खलु तस्य-अर्थस्याकारस्ततोऽर्थाद्भिन्नो वा भवेत् अभिन्नो वा ?, यदि मिन्नस्ततस्तस्वार्थस्सायमाकार इति
Jain Educa
N
ational
For Private & Personel Use Only
ww.jainelibrary.org