SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ | यदेतदुच्यते-'अयं देह' इति, भक्तिरेषा-खदर्शनानुराग एष।ततः कथं नु अविगानं ? येनोच्यते 'जं पुण जंतुसरीरे | उभयजमित्थंपिमं चेवत्ति' ॥ ६३६ ॥ कथं पुनर्वाद्यार्थाभावः सिद्धो येन विज्ञानमात्रमेव परमार्थः स्यादिति चेत् | अत आह बज्झत्थो परमाणू समुदायो अवयवी व होजाहि ? । गाहगपमाणविरहा सवोऽवि ण संगतो एस ॥ ६३७ ॥ बायोऽर्थो हि परमाणवो वा समुदायो वा-परमाणुसमुदायः अवयवी वा भवेत् ?, न च एष सर्वोऽपि संगतः, कुत इत्याह-तद्वाहकप्रमाणाभावात् । न च प्रमाणमन्तरेण प्रमेयव्यवस्था युक्ता, मा प्रापदतिप्रसङ्ग इति ॥ ६३७ ॥ तत्र यथा परमाणुषु ग्राहकप्रमाणाभावस्तथोपपादयन्नाह परमाणवो ण इंदियगम्मा तग्गाहकं कतो माणं?। ___ अविगाणाभावातो ण जोगिनाणंपि जुत्तिखमं ॥ ६३८ ॥ परमाणवो नेन्द्रियगम्या-न चक्षुरादीन्द्रियगोचराः ततस्तद्वाहकं प्रत्यक्षं प्रमाणं कुतो भवेत् । न कुतश्चिदिति भावः, अतीन्द्रियत्वात् । स्यादेतत् , मा भूत् अस्मदादिप्रत्यक्षं तद्वाहकं प्रमाणं, योगिप्रत्यक्षं तु तद्भाहकं भविष्यतीति MSRAMANA CASSACK en Education For Private Personal Use Only
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy