________________
धर्म
||२३८||
Jain Education
जं पुण जंतुसरीरे उभयजमेत्थंपिमं चेव ॥ ६३५ ॥
प्रतिमादिषु आदिशब्दात् कामावेशादिपरिग्रहः दृष्टमिदं यदुत - देहस्य संपूजनव्यापत्ती नात्मनः सुखदुःखनिमित्ते भवत इति । प्रतिमाप्रतिपन्नस्य देहव्यापत्तावपि ध्यानवलेनैकान्तसुखोपेतत्वात्, कामार्त्तस्य कन्दनादिसन्निधानभावेऽपि कामोद्रेकवशतो महादुःखदर्शनादिति । अत्राह - 'तं खलु इत्यादि' तत् खलु - प्रतिमादिषु सुखादि आध्यात्मिकमित्यविगानं - विगानाभावः, अनाध्यात्मिकस्यैव सुखदुःखस्य देहादिनिमित्ततया साधयितुमिष्टत्वात् । यत् पुनर्जन्तुशरीरे सुखदुःखम् उभयजं - संपूजनव्यापत्तिजं संपूजनव्यापत्तिनिमित्तमनाध्यात्मिकं प्रतिमाद्यवस्थायामपि इदमपि |इत्थमेव - अविगानमेव, तस्यापि तथाभावतोऽनुभवसिद्धतया प्रतिषेदुमशक्यत्वात् । तदेवं विपक्षे दृष्टेष्टविरोधदर्शनात् अवश्यमात्मशरीरयोः संबन्ध एष्टव्यः, तथा सति कर्मण्यपि मूर्त्तिमत्यस्तु विशेषाभावात्, ततः कर्म मूर्त्तमिति स्थितम् ॥ ६३५ ॥ यत्पुनरुक्तम् - यदपि जन्तुशरीरे उभयजं तत्राप्यविगानमेवेति, तत्र ज्ञानवाद्याहज्झत्थाभावातो भत्ती एसा इमो तु देहोति ।
विन्नाणमेत्तमेव उ परमत्थो कह णु अविगाणं ? ॥ ६३६ ॥
ननु विज्ञानमात्रमेव परमार्थः न तु बाह्योऽर्थः, तस्य वक्ष्यमाणयुक्त्या अनुपपद्यमानत्वात्, ततो वाह्मार्थाभावात्
ational
For Private & Personal Use Only
संग्रहणिः
॥२३८॥
ww.jainelibrary.org