________________
Jain Education
येsपि च प्रशान्तचित्तादिभावतः आदिशब्दादप्रशान्तचित्तपरिग्रहः तेऽपि सुखादयस्तत्कृता एव - देहानुग्रहादिकृता एव । कथमिति चेत् अत आह— 'जमित्यादि' यत् - यस्मात् शुभमन आदियोगे आदिशब्दादशुभमनः परिग्रहः तस्य- देहस्य ध्रुवा-निश्चिता अनुग्रहादयो भवन्त्येव । "इट्ठाणिट्ठाहारम्भवहारे होंति वुडहाणीओ । जह तह मणसो ताउ" इतिवचनात् । ततो न तद्भाव एव भावादिति व्यभिचारि ॥ ६३३ ॥ तदेवं दृष्टविरोधमुपदर्श्य इष्टविरोधमुपदर्शयन्नाह -
तस्सेव य संपूयणवावत्तीओ सुहासुहनिमित्तं । इट्टाओ अञ्चतं भेदे एतंपि हु न जुत्तं ॥ ६३४ ॥
तस्यैव-देहस्य सुखासुखनिमित्तम् - आत्मनः सुखासुखोत्पत्तिहेतोः संपूजनव्यापत्ती इष्टे । अत्यन्तं चेदात्मदेहयोर्भेद इष्यते ततस्तस्मिन् सति एतदपि न युक्तं यत् आत्मनः सुखासुखनिमित्तं संपूजनव्यापत्ती देहस्येभ्येते ॥ ६३४ ॥ अत्र परः सिद्धसाध्यतामभिमन्यमान आह
डिमादिसु दिट्ठमिदं तं खलु अज्झत्थियंति अविगाणं ।
१ इष्टानिष्टाहाराभ्यवहारे भवतो वृद्धिहानी । यथा तथा मनसस्ते ।
For Private & Personal Use Only
www.jainelibrary.org