________________
संग्रहणि.
॥२३७॥
4+RAGAR
इय दिट्टेटविरोहो अणुहवगम्मा सुहादयो दिट्ठा ।
न य ते अन्ननिमित्ता तब्भावे चेव भावातो ॥ ६३२॥ इतिः-एवं सति रविरोधः प्राणोति. तत्र दाविरोधं भावयति-'अणहवेत्यादि' देहानग्रहादिनिमित्ततया अन-10 भवगम्याः सुखादयो दृष्टाः, न च ते-सुखादयो देहानुग्रहादिनिमित्तातिरेकेणान्यनिमित्ताः कल्पयितुं शक्यन्ते कुत इत्याह-'तब्भावे चेव भावाओं' तद्भावे एव-देहानुग्रहादिभाव एव सुखादीनां भावात् न तदभावे, व्यतिरेकस्य चान्वयाविनाभूतत्वादेतदपि द्रष्टव्यं, देहानुग्रहादिभावे सुखादीनां भावादेवेति । यदि पुनरित्थं देहानुग्रहाद्यन्वयव्यतिरेकानुविधानेऽपि सुखादीनां निमित्तान्तरमुपकल्प्येत तर्हि सर्वत्र प्रतिनियतकार्यकारणभावोच्छेदप्रसङ्गः, यदाह-"यस्मिन् सति भवत्येव, यत्ततोऽन्यस्य कल्पने। तद्धेतुत्वेन सर्वत्र, हेतूनामनवस्थितिः॥१॥ इति ॥६३२॥ ननु च देहानुग्रहाद्यतिरेकेणापि प्रशान्तमनोयोगादिभावतः सुखादयो दृष्टाः, तत्कथमुच्यते-देहानुग्रहादिभाव एव सुखादीनां भाव इति । अत आह
जेवि य पसंतचित्तादिभावतो तेऽवि तकया चेव । जं सुहमणादियोगे अणुग्गहादी धुवा तस्स ॥ ६३३ ॥
॥२३७॥
Jain Educa
t
ion
For Private & Personel Use Only
www.jainelibrary.org