________________
SOURCELONESS
खखभावनियतत्वेन कथं संबन्ध इति दोषभीतेरमूर्त कर्माभ्युपजग्मे, स च मूर्चामूर्तयोः संबन्ध एवमप्यपरिहार्य एवेति दर्शयन् खाभ्युपगमसमीचीनतां दर्शयति
तब्भावम्मिवि जोगो मुत्तिमता विग्गहेण जीवस्स ।
अब्भुवगंतवो च्चिय कम्मम्मिवि एव को दोसो ? ॥ ६३०॥ तद्भावेऽपि-अमूर्त्तकाभ्युपगमभावेऽपि योगः-संबन्धो मूर्त्तिमता विग्रहेण-शरीरेण सह जीवस्याभ्युपगन्तव्य एव, अनभ्युपगमे वक्ष्यमाणदोपप्रसङ्गात् । एवं शरीरवत् कर्मण्यपि मूर्तिमति जीवेन सह संबन्धाभ्युपगमे को दोषो ?, नैव कश्चनेतिभावः, उभयोरपि मूर्त्तत्वेनाविशेषात् ॥ ६३० ॥ विग्रहेण सह संबन्धानभ्युपगमे दोषमाह
देहेणं संजोगाभावे उवघायमादिओ तस्स।
अण्णस्स जह न दुक्खादि देहिणोऽवि तहा ण भवे ॥ ६३१॥ देहेन-शरीरण सह संयोगाभावेऽभ्युपगम्यमाने यथा देहस्योपघातादित-उपघातादिभावतो मकारोऽलाक्षणिकोऽन्यस्य-तदतिरिक्तस्य जनस्य दुःखादि न भवति, तेन देहेन सह तस्य संबन्धाभावात् , तथा देहिनोऽपि-विवक्षित| देहवत् आत्मनो दुःखादि न भवेत् , संबन्धाभावाविशेषात् ॥ ६३१॥ ततः किमित्याह
Jain Educati
o n
For Private & Personel Use Only
XMw.jainelibrary.org