________________
संग्रहणि
॥२३६॥
दिट्टमिह देसभेदे सुहदुक्खं अन्नहेऊ तं ॥ ६२८ ॥ न ह्याकाशमुपघातमनुग्रहं वाऽपि सत्त्वानां करोति, न च तत्रामूर्त्तत्वादन्यदकरणनिमित्तमस्ति, किंत्वमूर्तत्वमेव तचेहाप्यविशिष्टमिति कथमतो नानुग्रहोपघाताभावप्रसङ्गः । परो दृष्टान्तस्य साध्यविकलतामुद्भावयन्नाह-दिवे, त्यादि' दृष्टमिह-जगति देशभेदे सुखं दुःखं च, तथाहि-क्वचित् देशे सुखं भवत् अनुभूयते, क्वचिच दुःखं, न च तत्सकाशादन्यदित्थं भेदेन सुखदुःखनिमित्तमस्ति तथाऽनुपलम्भात् किंत्वाकाशमेव, ततः साध्यविकलो दृष्टान्त इति । अत्राह-'अन्नहेऊ तं' तत् देशभेदेन सुखं दुःखं च नाकाशनिमित्तं किंत्वन्यहेतुकम्-आकाशव्यतिरिक्तजलादिनिमित्तम् ॥ ६२८ ॥ तथाहि
आणूगम्मिऽसमीरणपउरस्स सुहं विवजए दुक्खं ।
तं जलमादिनिमित्तं न सुद्धखेत्तुब्भवं चेव ॥ ६२९ ॥ असमीरणप्रचुरस्य-अवातबहुलस्य पुंसः ‘आणूगम्मि' अनूपे सजले देशे सुखं, विपर्यये-निर्जले देशे दुःखं, न च तत्-सुखं दुःखं वा शुद्धक्षेत्रोद्भवं, तस्योभयत्राप्यविशेषात् । चेवशब्दो भिन्नक्रमः स चानन्तरमेव योक्ष्यते, किंतु जलादिनिमित्वमेव, तदन्वयव्यतिरेकानुविधानदर्शनादिति न साध्यविकलो दृष्टान्तः॥ ६२९ ॥ अपिच, मूर्चामूर्तयोः
SPOLOCNICASQUEIRA
। ॥२३६॥
Join Educat
For Private
Personel Use Only
www.jainelibrary.org