________________
Jain Educatio
जमणादिकम्मसंततिपरिणामावन्नरूवो सो ॥ ६२६ ॥
अथवा नायकान्तो यदुत - संसारी आत्मा सर्वथा अमूर्त्त इति, कुत इति चेत् आह - 'जमणेत्यादि' यत् - यस्मा - दसौ संसारी अनादिकर्मसंततिपरिणामापन्नरूपस्ततस्तद्रूपत्वान्नायमेकान्तेनामूर्त्तः, किंतु कथंचिन्मूत्तऽपि ततो नामू| र्त्तिमत्त्वात्तस्यानुग्रहोपघाताभाव इति ॥ ६२६ ॥ अत्रैव मतान्तरमपाकर्तुमुपदर्शयन्नाह
केई अमुत्तमेव तु कम्मं मन्नंति वासणारूवं ।
तं च न जुज्जइ तत्तो उवघायाणुग्गहाभावा ॥ ६२७ ॥
केचिद्वादिनो मन्यन्ते - कर्म अमूर्त्तमेव । तुः पूरणे । कुत इत्याह-वासनारूपं हेतौ प्रथमा, यतो वासनारूपं कर्म ततोऽमूर्त्तमेव तत् । अत्राह - 'तं च नेत्यादि' तच्चैतत् परैरुच्यमानं न युज्यते, कुत इत्याह-- ततो - वासनारूपादमूर्त्तात् कर्मणः सकाशादात्मनोऽनुग्रहोपघाताभावात् — अनुग्रहोपघाताभावप्रसङ्गात् ॥ ६२७ ॥ एतदेव दृष्टान्तेन द्रढयति
णागास उवघायं अणुग्गहं वावि कुणइ सत्ताणं ।
tional
For Private & Personal Use Only
•www.jainelibrary.org