________________
संग्रहणिः
॥२३५॥
कारणम् ॥१॥" अपि च इह देहे स्पृष्टे ताडिते वा पुंसः संवित्तिरुपजायते, सा च संवित्तिरात्मधर्मः, "चेतनाऽस्ति च यस्येयं स एवात्मेति" वचनात् । अतोऽवश्यं तावदेहात्मनोरन्योऽन्यव्याप्तिभावेन कथंचिदितरेतररूपापत्तिरेष्टव्या, तथा कर्मात्मनोरपि भविष्यति ततः कथं न संबन्ध इति ॥६२४ ॥ पुनरप्यन्यथा पर आह
मुत्तेणामुत्तिमओ उवघाताणुग्गहा कहं होजा ?।
जह विन्नाणादीणं मदिरापाणोसहादीहिं ॥ ६२५ ॥ ननु मूर्तेन कर्मणा हेतुभूतेन कथममूर्तिमतो जीवस्यानुग्रहोपघातौ स्यातां ?, न ह्याकाशस्य मुद्रादिनोपघातादि भवति । अत्राह-'जहेत्यादि' यथा विज्ञानादीनाममूर्तानामपि मदिरापानौषध्यादिभिः-सुरापानबाझ्यादिभिर्मूतैरुपघातानुग्रही भवतस्तथाऽऽत्मनः कर्मणाऽपि भविष्यतः, तथाहि-मदिरापानहृत्पूरविषपिपीलिकाभक्षणात् विज्ञानस्योपघात उपलभ्यते, ब्राह्मीसर्पिर्वचाधुपयोगाच्चानुग्रह इति ॥ ६२५ ॥ तदेवमन्योऽन्यव्याप्तितः कथंचिदितरेतररूपापत्तिं सतीमप्युपेक्ष्य कर्मणः सकाशादात्मनोऽनुग्रहोपघातभावे दोषाभाव उक्तः। सांप्रतं तामाश्रित्य दोषाभावमाह
अहवा गंतोऽयं संसारी सवहा अमुत्तोत्ति ।
॥२३५॥
Jain Educationalamla
For Private & Personel Use Only
Vw.jainelibrary.org