SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ गोपभोगयोर्विशेष इति चेत्, उच्यते, सकृत् भुज्यत इति भोगः-आहारमाल्यादि, पुनः पुनरुपभुज्यत इति उपभोगो-भवनवनितादि । यदुदयवशात् पुनर्नीरोगोऽपि खस्थोऽपि चाल्पवीर्यों भवति तद्वीर्यान्तरायमिति । |'चित्तमित्यादि' इदं ज्ञानावरणीयादिकं कर्म चित्रम्-अनेकरूपं चित्रफलनिबन्धनत्वात् , सर्व पुद्गलरूपमेव विज्ञेयं न तु किंचित् । एवकारो भिन्नक्रमः स च यथास्थानं योजित एव । विज्ञेयमिति पुनः क्रियाभिधानं भिन्नालम्बनत्वाददुष्टमेव ? ॥ ६२३ ॥ अत्र परस्थावकाशमाह मुत्तेणामुत्तिमतो जीवस्स कहं हवेज संबंधो? । सोम्म ! घडस्स व णभसा जह वा दबस्स किरियाए ॥ ६२४ ॥ | यदि कर्म पौद्गलिकं ततः कथं तेन मूर्तेन कर्मणा सह अमूर्तिमतो जीवस्य संबन्धः-संश्लेषो भवेत् ?, नैव कथंचनापीत्यर्थः, तदुक्तम्-"जीवो मूतैः कर्मभिन बध्यते, खयममूर्तत्वात् , यः पुनः मूर्बध्यते नासावमूर्तों यथा रज्यादिना वध्यमानो घटादिरिति” । अत्रोत्तरमाह-अहो सौम्य ! यथा नभसा-आकाशेनामूर्तेन सह घटस्य यथा वा द्रव्यस्य-अङ्गुल्यादेः क्रियया-आकुञ्चनादिलक्षणया अमूर्त्तत्वेनाभ्युपगतया संबन्धो भवति तथा कर्मात्मनोरपि भविष्यति, तथा चोक्तम्- “मलैनिसर्गाद्वध्येत, चेतनोऽचेतनैः स्वयम् । जीवोऽमूर्ती न वै मूर्तिः, कर्मबन्धस्य धम.४. For Private Personal Use Only
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy