________________
धर्म
संग्रहणि
॥२३४॥
गोयं च दुविहभेदं उच्चागोयं तहेव णीयं च ।
चरिमं च पंचभेदं पन्नत्तं वीयरागेहिं ॥ ६२२ ॥ गोत्रं च प्रागनिरूपितशब्दार्थम् (द्विविधभेदम् ) उच्चैर्गोत्रं नीचैर्गोत्रं चेति । तत्रौचैर्गोत्रं यदुदयादज्ञानी विरूपो| निर्धनोऽपि सुकुलमात्रादेव पूज्यो भवति, नीचैर्गोत्रं यदुदयात् ज्ञानादिगुणयुक्तोऽपि दुष्कुलोत्पन्नत्वेन निन्द्यते, चरमं च-पर्यन्तवर्ति च पञ्चभेदं-पञ्चप्रकारं प्रज्ञप्तं वीतरागैः ॥ ६२२ ॥
तं दाणलाभभोगोवभोगविरियंतराइयं जाण ।
चित्तं पोग्गलरूवं विन्नेयं सबमेवेदं ॥ ६२३ ॥ तत्-दानलाभभोगोपभोगवीर्यान्तरायकं जानीहि, अन्तरायशब्दः प्रत्येकमभिसंबध्यते, दानान्तरायं लाभान्तरायमिति(त्यादि)। तत्र यदुदयात् सति दातव्ये पात्रविशेषे च प्रतिग्राहके खर्गाङ्गनोपभोगसंप्राप्त्यादि च दानफलं जानन्नपि दातुं नोत्सहते तत् दानान्तरायम् । विशिष्टेऽपि दातरि विद्यमानेऽपि देये वस्तुनि याञ्चाकुशलोऽपि याचको यदुदयवशान्न लभते तल्लाभान्तरायम् । सति विभवे संपद्यमाने चाहारमाल्यादौ विरतिपरिणामरहितोऽपि यदुदयवशात् तत् आहारमाल्यादिकं न भुते तत् भोगान्तरायम् । एवमुपभोगान्तरायमपि द्रष्टव्यम् । कः पुनर्भो
RECAAMROSAROSASARDARS
॥२३४॥
Jain Educa
For Private Personal Use Only
www.jainelibrary.org