________________
Jain Educatio
नाम । यशः कीर्त्तिनाम यदुदयात् यशः कीर्ती भवतः । ननु च कथमेते यशःकीर्ती तन्नामोदयनिबन्धने, तद्भावेऽपि क्वचित् तयोरभावात्, तदुक्तम् - " तस्सेव केइ जसकित्तिकित्तया अजसकित्तया अन्ने । पायाराई जं वेंति अइसए इंदयालत्तं ॥ १॥” इति । नैष दोषः । सद्गुणमध्यस्थपुरुषापेक्षयैव यशः कीर्त्तिनामोदयस्याभ्युपगतत्वात् उक्तं च - " जई कहवि धाउवे सम्मयाए दुर्द्धपि जायए कडुयं । निंबो महुरो कस्सइ न पमाणं तहवि तं होइ ॥ १॥ अपि तु विवैरीयदवगुणभासणाए अपमाणताओ तस्सेव । सग्गुणविसयं तम्हा जाणह जसकित्तिनामं तु ॥ १॥ अयं च यशःकीयविशेष :- दानपुण्यकृतः साधुवादः कीर्तिः, पराक्रमकृतस्तु यश इति । अयशः कीर्त्तिनाम उक्तविपरीतम् । निर्माणनाम यदुदयात् खखजात्यनुसारेण जन्तुशरीरष्वङ्गोपाङ्गानां प्रतिनियतस्थानप्रवृत्तिता भवति, जातिलिङ्गाकृतिव्यवस्थानियम इत्यन्ये । अतुलं - प्रधानं चरमं - प्रधानत्वात् सूत्रक्रमप्रामाण्याच्चान्तिमं तीर्थकरनाम यदुदयात्सदेवमनुजासुर स्य | जगतः पूज्यो भवति । चः समुच्चये । इह च गत्यादिकर्मावान्तरप्रभेदरूपव्यावर्णनं ग्रन्थगौरवभयान्न कृतमित्यन्यतोऽवधार्यम् ॥ ६२१ ॥
१ तस्यैव केचित् यशःकीर्तिकीर्त्तका अयशः कीर्तका अन्ये । प्राकारादीन् यद् ब्रुवतेऽतिशयान् इन्द्रजालत्वम् ॥ १ ॥ २ यदि कथमपि धातुवैषम्येन दुग्धमपि जायते कटुकम् । निम्बो मधुरः कस्यचित् न प्रमाणं तथापि तद्भवति ।। ३ विपरीतद्रव्यगुणभाषणया अप्रमाणतया तस्यैव । सद्गुणविषयं तस्मादू जानीहि यशः कीर्तिनाम तु ॥ ४ नं वृत्तिता इति ख पुस्तके |
ational
For Private & Personal Use Only
www.jainelibrary.org