________________
धर्म
| संग्रहणिः
॥२३३॥
शरीरं भवति । स्थिरनाम यदुदयात् शरीरावयवानां दन्तास्थिप्रभृतीनामचलता भवति । अस्थिरनाम यदुदयात्तदवयवानामेव जिह्वाकर्णादीनां चपलता भवति । शुभाशुभं च ज्ञातव्यमिति, शुभनाम यदुदयन शरीरावयवानां शिरःप्रभृतीनां शुभता भवति, अशुभनाम यदुदयात् शरीरावयवानामेव पादादीनामशुभता भवति, तथाहि-शिरसा स्पृष्टः सन् तुष्यति पादादिभिस्तु रुष्यति, कामिनीव्यवहारेण व्यभिचार इति चेत्, न, तस्य मोहनीयनिबन्धनत्वात्, वस्तुस्थितेश्चेह चिन्त्यमानत्वात् । शुभनाम यदुदयादुपकारक्रियारहितोऽपि प्रभूतजनानां प्रियो भवति, तद्विपरीतं दुर्भगनाम, उक्तं च-"अणुवकओवि बहूणं जो हु पिओ तस्स सुभगनामुदओ। उवकारकारगोवि हुण | रुचई दुब्भगस्सुदए ॥१॥ इति"। सुखरनाम यदुदयवशात् खरः श्रोत्रप्रीतिकरो भवति । दुःखरनाम यदुदयात्काकोलूकखरकल्पः खरो भवति ॥ ६२० ॥
आएजमणाएजं जसकित्तीनाममजसकित्तिं च।
निम्माणनाममतुलं चरिमं तित्थगरनामं च ॥ ६२१ ॥ आदेयनाम यदुदयादादेयो भवति, यद्भाषते चेष्टते वा तत्सर्व लोकः प्रमाणीकरोतीत्यर्थः । तद्विपरीतमनादेय१ अनुपकृतोऽपि बहूनां यः खलु प्रियस्तस्य सुभगनामोदयः । उपकारकारकोऽपि खलु न रुच्यते दुर्भगस्योदये ।
२३३॥
Jain Education
For Private & Personel Use Only
F
jainelibrary.org