________________
Jain Educatio
आतपनाम यदुदयात् जन्तुशरीरं स्वयमनुष्णं सत् आतपं करोति, तदुदयश्च पार्थिवशरीरेष्वेव आदित्यमण्डल - गतेषु । उद्योतनाम यदुदये जन्तुशरीरमनुष्णप्रकाशात्मकमुद्योतं करोति, यथा यतिदेवोत्तरवैक्रियचन्द्रग्रहनक्षत्रताविमानमणिरत्नौषधिप्रभृतयः । विहायोगतिनाम यदुदयाच्चङ्क्रमणं प्रशस्ताप्रशस्तभेदेन द्विविधं भवति, तत्र प्रशस्तं हंसगजादीनामप्रशस्त मुष्ट्रादीनाम् । श्रसनाम यदुदयाच्चलनस्यन्दने भवतः, चङ्क्रमणमेवान्ये । स्थावरनाम यदुदयादचलनस्यन्दनो भवति, चङ्क्रमणरहित एवान्ये । चः समुच्चये । वादरनाम यदुदयाद्वादरो भवति । सूक्ष्मनाम यदुदयात् सूक्ष्मो भवति । पर्याप्तकनाम यदुदयात्सर्वपर्याप्तिनिष्पत्तिर्भवति । अपर्याप्तकं च ज्ञातव्यमिति, अपर्याप्तकनाम उक्तविपरीतं, यदुदयात्संपूर्णपर्यात्यनिष्पत्तिर्भवति, अपर्याप्तका अपि च आहारशरीरेन्द्रियपर्याप्तिभिः पर्याप्ता एव म्रियन्ते यस्मात्सर्व एव देहिन आगामिभवायुर्वद्धा म्रियन्ते नावद्धा, तच्चायुर्वध्यते आहारशरीरेन्द्रियपर्याप्तिपर्यासानामेवेति ॥ ६१९ ॥
ational
पत्तेयं साहारणथिरमथिरसुभासुभं च नायवं । सुभगभगनामं सूसर तह दूसरं चैव ॥ ६२० ॥
प्रत्येकनाम यदुदयादेको जीव एकं शरीरं निर्वर्त्तयति । साधारणनाम यस्योदयादनन्तानां जीवानां साधारणमेकं
For Private & Personal Use Only
www.jainelibrary.org