SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणिः ॥२३२॥ तथा वर्णनाम यदुदयात्कृष्णवर्णादिनिष्पत्तिर्भवति । गन्धनाम सुरभिगन्धदुरभिगन्धनिबन्धनम् । रसनाम तिक्तादिरसकारणम् । स्पर्शनाम यद्वशात् कर्कशादिस्पर्शनिष्पत्तिः । अगुरुलघु च बोद्धव्यमिति, अगुरुलघुनाम यदुदयात् खजात्यपेक्षया नैकान्तेन गुरु पि लघुर्देहो भवति, एकान्तगुरुत्वादिसद्भावे हि सदा निमजनोर्ध्वगमनप्रसङ्गः। उपघातनाम यदुदयात् खशरीरावयवैरेव प्रतिजिह्वालम्बकगलवृन्दचोरदन्तादिभिःप्रवर्तमानर्जन्तुरुपहन्यते। पराघातनाम यदुदयादोजखी दर्शनमात्रेण वाक्सौष्ठवेन वा महानृपसभामपि गतः सभ्यानामपि त्रासमापादयति प्रतिवादिनश्च प्रतिभाविघातं करोति । आनुपूर्वीनाम यदुदयादपान्तरालगतौ नियतदेशमनुसृत्य अनुश्रेणिगमनं | भवति, नियत एवाङ्गविन्यास इत्यन्ये । उच्छवासनाम यदुदयादुच्छासनिःश्वासौ भवतः । ननु यदि उच्छासनाम कर्मोदयात् उच्छासनिःश्वासौ तत उच्छ्वासपर्याप्तिनाम्नः क्वोपयोग इति ?, उच्यते, उच्छासपर्याप्तिर्हि उच्छासनामकर्मोदयस्य उच्छासनिःश्वासौ निष्पादयतः सहकारिकारणमिषुक्षेपणशक्तिमतो धनुर्ग्रहशक्तिवत् , ततो भिन्नविषयतेति न कश्चिद्दोषः । एवमन्यत्रापि भिन्नविषयता सूक्ष्मधिया यथायोगमायोजनीया । चः समुच्चये ॥ ६१८ ॥ आतवउज्जोव(य)विहागती य तसथावराभिहाणं च । वायरसुहुमं पजत्तापजत्तं च नायत्वं ॥ ६१९ ॥ RSRASASARAKASAR ॥२३॥ nin Educat www.jainelibrary.org For Private 8 Personal Use Only i onal
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy