SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ गतिनाम । एवमन्यत्रापि द्रष्टव्यम् । जातिनाम् यदुदयादेकेन्द्रियादिजात्युत्पत्तिः । ननु च स्पर्शनादीन्द्रियावरणक्षयोपशमादेकेन्द्रियादित्वं तत्कथं जातिनामहेतुकं तदुच्यत इति ?, नैष दोषः, स्पर्शनादीन्द्रियावरणक्षयोपशमस्य स्पर्शनादीन्द्रियोपयोगं प्रत्येव हेतुत्वात् जातिनाम्नस्तु एकेन्द्रियादिसंज्ञाप्रवृत्तिनिमित्तभूततथारूप समानपरिणतिलक्षणसामान्यहेतुत्वादिति । शरीरनाम यदुदयादौदा रिकादिशरीरभावः । अङ्गोपाङ्गनाम यदुदयादङ्गोपाङ्गनिष्पत्तिः । तत्र शिरःप्रभृतीन्यङ्गानि अङ्गुल्यादीनि उपाङ्गानि अङ्गुलिपर्वरेखादीनि चाङ्गोपाङ्गानि उक्तं च- "सीसंमुरोयरपिट्ठी दो बाहू ऊरुया य अटुंगा । अङ्गुलिमाइ उवंगा अङ्गोवंगाई से साई ॥ १ ॥ " | बन्धननाम यत्सर्वात्मप्रदेशैर्गृहीतानां गृह्यमाणानां च पुद्गलानामन्योऽन्यमन्यशरीरैर्वा संबन्धजनकं जतुकल्पम् । संघातननाम यदुदयादौदारिकादिशरीरयोग्य पुद्गलग्रहणे सति शरीररचना भवति । संहनननाम यदुदयात् वज्रर्षभनाराचादिसंहनननिष्पत्तिर्भवति । संस्थाननाम समचतुरस्रादिसंस्थानकारणम् । चः समुच्चये ॥ ६१७ ॥ Jain Education ional तह वन्नगंधरसफासणाममगुरुलघू य बोद्धवं । उवघाय पराघाताणुपुवि उस्सासनामं च ॥ ६१८ ॥ १ शीर्षमुरउदरपृष्ठानि द्वौ बाहू ऊरूको चाष्टाङ्गानि । अङ्गुल्यादीन्युपाङ्गानि अङ्गोपाङ्गानि शेषाणि ॥ १॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy