________________
धर्म
॥२३१॥
Jain Education
पायद्वादशक सहचरितत्वात् इष्टव्या, नोशब्दस्येह सहचरार्थत्वात्, न हि क्षीणेषु द्वादशसु कषायेष्वमीषा भावो विद्यत इति ॥ ६१५ ॥
आउंच एत्थ कम्मं चउब्विहं नवरि होति नायवं । नारयतिरियनरामरगतिभेदविभागतो जाण ॥ ६१६ ॥
आयुः प्रानिरूपितशब्दार्थम् अत्र - विचारप्रक्रमे कर्म चतुर्विधं नवरं भवति ज्ञातव्यम्, नवरमिति निपातः खगतानेकभेदप्रदर्शनार्थः । चातुर्विध्यमेव कथयति - 'नारगेत्यादि' नारकतिर्यङ्गरामर गतिविभागभेदतो 'जाणत्ति' जानीहि तत् चातुर्विध्यम्, तद्यथा - नारकायुस्तिर्यगायुर्मनुष्यायुर्देवायुश्चेति ॥ ६१६ ॥
नामं दुचत्तभेदं गतिजातिसरीरअंगुवंगे य ।
बंधण संघायण संघयणा संठाण णामं च ॥ ६१७ ॥
नाम प्रागुक्तशब्दार्थ द्विचत्वारिंशत्प्रकारम्, तानेव प्रकारानाह - 'गइइत्यादि' गतिनाम गम्यते तथाविधकर्म| सचिवैजींवैः प्राप्यत इति गतिः - नारकत्वादिपर्यायपरिणतिः तद्विपाकवेद्या कर्मप्रकृतिरप्युपचाराद्गतिः सैव नाम
For Private & Personal Use Only
संग्रहणिः
॥२३१॥
w.jainelibrary.org