________________
किमिरागसारिच्छो ॥ २॥ पक्खचउम्मासवच्छरजावजीवाणुगामिणो कमसो । देवनरतिरियनारयगइसाहणहेययो भणिया ॥३॥” इति ॥ ६१४ ॥ अधुना नोकषायभेदानाह
इत्थीपुरिसनपुंसगवेदतिगं चेव होइ नायव्वं ।
हासरतिअरतिभयं सोगदुगुंछा य छक्कंति ॥ ६१५ ॥ स्त्रीपुरुषनपुंसकवेदत्रिकं चैव भवति ज्ञातव्यं नोकषायभेदत्वेन, तत्र यदुदयेन स्त्रियाः पुंस्यभिलाषः पित्तोदये | मधुरद्रव्याभिलाषवत् स फुफुकाग्निसमः स्त्रीवेदः, यदुदयाच पुंसः स्त्रियामभिलाषः श्लेष्मोदये अम्लद्रव्याभिलापवत् स तृणज्वालासमानः पुंवेदः, यदुदयेन पण्डकस्योभयोरपि स्त्रीपुंसयोरभिलाषः श्लेष्मपित्तोदये मजिकाभिलापवत् स महानगरदाहसदृशो नपुंसकवेदः। हास्यं रतिररतिर्भयं शोको जुगुप्सा चेति षटुं, एतेऽपि नोकपायभेदाः, तत्र यदुदयेन सनिमित्तमनिमित्तं वा हसति तत्कर्म हास्यवेदनीयं, यदुदयेन बाह्याभ्यन्तरेषु वस्तुषु प्रीतिरुपजायते तत् रतिवेदनीयम् , एतेष्वेव यदुदयादप्रीतिरुपजायते तत् अरतिवेदनीयं, यदुदयात्सनिमित्तमनिमित्तं वा भयमुप
गच्छति तत् भयवेदनीयं, यद्वशाच प्रियविप्रयोगादिपीडितचित्तः सन् परिदेवनादि करोति तत् शोकवेदनीयं, पटू यस्योदयेन पुनः पुरीपादिवीभत्सपदार्थेषु जुगुप्सावान् भवति तत् जुगुप्सावेदनीयम् । नोकषायता चामीपामाद्यक
For Private
Jain Education
Mainelibrary.org
Personal Use Only