SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ संग्रहणि ॥२३०॥ ASSMENROCOCCANCIES दधतीत्येवंशीला इत्यनन्तानुवन्धिनः, यद्यप्येतेषामन्यकषायरहितानामुदयो नास्ति तथाप्यवश्यमनन्तभवभ्रमणमूलकारणमिथ्यात्वोदयाक्षेपकत्वात्तेषामेवैतन्नाम, न पुनः सहभाव्युदयानामन्यकषायाणामपि, तेषामवश्यं मिथ्यात्वोदयाक्षेपकत्वाभावात् । अविद्यमानप्रत्याख्याना अप्रत्याख्यानाः, देशप्रत्याख्यानं सर्वप्रत्याख्यानं च नैषामुदये लभ्यते इतियावत् । प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणाः, आङ् मर्यादायामीपदर्थे वा, तत्र मर्यादायां सर्वविरतिमावृण्वन्ति न देशविरतिं, ईपदर्थे ईषत् सर्वविरतिलक्षणं प्रत्याख्यानं वृण्वन्ति न भूयोदेशविरतिलक्षणं, भूयांसि हि देशविरतिप्रत्याख्यानानि, स्तोकादपि विरतस्य देशविरतिभावात् । चः समुच्चये। 'संजलणा' इति सम्शब्द ईषदर्थे, परीपहोपसर्गादिसंपाते चारित्रिणमपि ईषत् ज्वलयन्तीति संज्वलनाः । एवं क्रोधमानमायालोभाः प्रतीतखरूपाः प्रत्येकं चतुर्विकल्पा भवन्ति । क्रोधोऽप्यनन्तानुबन्ध्यादिभेदाचतुर्विकल्पः, एवं मानादयोऽपीति । पश्चानुपूर्व्या च खरूपमेतेषामित्थमाहुः समयविदः-"जलरेणुपुढविपचयराईसरिसो चउविहो कोहो । तिणि सलयाकट्टडियसेलत्थंभोवमोमाणो ॥१॥ मायाऽवलेहिगोमुत्तिमिढसिंगघणसिमूलसमा । लोहो हलिहखंजणकद्दम १ जलरेणुपृथिवीपर्वतराजिसदृशश्चतुर्विधः क्रोधः । तिनिशलताकाष्टास्थिकशैलस्तम्भोपमो मानः ॥ १॥ मायावलेखिकागोमूत्रिकामेषशृङ्गधनवंशीमूलसमा । लोभो हरिद्राख जनकर्दमकृमिरागसदृक्षः ॥ २ ॥ पक्षचतुर्मासवत्सरयावज्जीवानुगामिनः क्रमशः । देवनरतिर्यनारकगतिसाधनहेतवो भणिताः ॥ ३ ॥ ॥२३०॥ Jan Educati onal For Private Personel Use Only w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy