________________
मोहयति, तस्य दर्शनहेतुत्वात् , उच्यते, इह यतो निर्मदीकृतमदनकोद्रवकल्पमपगतमिथ्यात्वभाव मिथ्यात्ववेदनीयमेव सम्यक्त्ववेदनीयमुच्यते ततो मिथ्यात्वप्रकृतित्वात्कदाचिदतिचारसंभवेन तदपि दर्शनं मोहयत्येव, औपशमिकादिरूपं वा दर्शनं मोहयतीति दर्शनमोहनीयमुच्यत इत्यदोषः ॥ ६१२॥
दुविहं चरित्तमोहं कसाय तह णोकसायवेयणियं ।
सोलसनवभेदं पुण जहसंखं तं मुणेयत्वं ॥ ६१३ ॥ द्विविधं-द्विप्रकारं चारित्रमोहनीयं प्राङिरूपितशब्दार्थ-कषायवेदनीयं नोकषायवेदनीयं च । तत्र क्रोधादिकपायरूपेण यद वेद्यते तत्कषायवेदनीयं, तथा स्त्रीवेदादिनोकषायरूपेण यद्वद्यते तन्नोकषायवेदनीयम् । अनयोरेव भेदानाह-'सोलसेत्यादि' षोडशभेदं कषायवेदनीयं नवभेदं नोकषायवेदनीयमिति ॥६१३॥ तत्र कषायभेदानाह
अणअप्पच्चक्खाणपच्चक्खाणावरणा य संजलणा।
कोहमाणमायलोभा पत्तेयं चउविकप्पत्ति ॥ ६१४ ॥ सूचनात् सूत्रमितिकृत्वा 'अण इति' अनन्तानुवन्धिनो गृह्यन्ते, तत्र पारम्पर्येण अनन्तं भवमनुबन्धन्ति-अनुसं-17
Jain Education
Motional
For Private & Personel Use Only
Vinaw.jainelibrary.org