________________
प्रचलाऽपेक्षया अस्या अतिशायित्वमिति । उक्तं च-"सुहपडिबोहा निद्दा दुहपडिबोहा उ निद्दनिहा य । पयला होइ ठियस्स उ पयलापयला तु चंकमणे ॥१॥” इति स्त्याना-अतिबहुत्वेन संघातमापन्ना उपचितेतियावत् गृद्धिःजाग्रदवस्थाध्यवसितार्थसंसाधनविषया अभिकाङ्क्षा यस्यां सा स्त्यानगृद्धिः, प्राकृतत्वात् आपत्वाच 'थीणद्धीति' भवति, यद्वा स्त्याना-पिण्डीभूता ऋद्धिः-आत्मशक्तिरूपा यस्यां सा स्त्यानद्धिः सुरौद्रा तस्यां सत्यां प्रथमसंहननिनः खप्तुः केशवार्द्धबलसदृशी शक्तिर्भवति, प्रबलरागद्वेषोदयश्च तदोपजायते, तदुक्तम्-“अईसंकिलिट्ठकम्माणुवेयणे होइ थीणगिद्धी उ। महनिद्दा दिणचिंतियवावारपसाहणी पायं ॥१॥” इति, तद्विपाकवेद्या कर्मप्रकृतिरपि स्त्यानगृद्धिः स्त्यानद्धिा उच्यते । एतन्निद्रापञ्चकं जिनैः-सर्वज्ञैरभिहितम् ॥ ६१० ॥ दर्शनचतुष्टयमाह
नयणेतरोहिकेवलदसणवरणं चउविहं होइ।
सातासातदुभेदं च वेयणिजं मुणेयत्वं ॥ ६११ ॥ 'नयनेतरावधिकेवलदर्शनावरणं चतुर्विधं भवति' दर्शनावरणशब्दः प्रत्येकमभिसंबध्यते, नयनं-चक्षुस्तदर्शनाव
१ सुखप्रतिबोधा निद्रा दुःखप्रतिबोधा तु निद्रानिद्रा च । प्रचला भवति स्थितस्य तु प्रचलाप्रचला तु चंक्रमणे । २ अतिसंक्लिष्टकर्मागुवेदने भवति स्त्यानगृद्धिस्तु । महानिद्रा दिनचिन्तितव्यापारप्रसाधनी प्रायः ।
CATEG
धर्म.३
For Private Personal use only