________________
Jain Education
विविधभावानुभवनं प्रति प्रवणयति जीवमिति नाम । तथा गूयते शब्द्यते उच्चावचैः शब्दैरात्मा यस्मात् कर्मणस्तगोत्रम् । चरमं - पर्यन्तवर्त्ति पुनरन्तरायं भवति, अन्तरा दातृप्रतिग्राहकयोरन्तर्विज्ञ हेतुतया अयते - गच्छतीत्यन्तरायम् । मूलप्रकृतय एताः सामान्यविशेषरूपाः प्रकृतय इत्यर्थः । उत्तरप्रकृती:- एतद्विशेषरूपा अतो वक्ष्ये अत ऊर्द्धमभिधास्ये इति । इदानीमित्थं क्रमोपन्यासे प्रयोजनमभिधीयते - इहायमात्मा ज्ञानदर्शनखरूपस्तत्रापि सर्वा अपि लब्धयो ज्ञानोपयोगे सति भवन्ति नान्यथेति ज्ञानलक्षणप्रथमगुणविघातित्वात् प्रथमं ज्ञानावरणमुपन्यस्तं, तदनु स्थितिसाम्यादुपयोग लक्षणगुण विघातित्वसाम्याच दर्शनावरणं, तदनन्तरं च केवलिनमपि यावत् बन्धसद्भावेन बहुबन्धकालत्वात् समानस्थितिकत्वाच्च वेदनीयं तदनु च सर्वेभ्योऽपि कर्मभ्यः सकाशात् प्रभूतस्थितिकत्वान्मोहनीयं, तदनु च सर्वकर्माधारत्वादायुस्ततोऽपि च प्रभूतप्रकृतिकतया वहुवक्तव्यत्वान्नाम, तत ऊर्द्ध च समानस्थितिकतया गोत्रं, तदनु च पारिशेष्यादन्तरायमिति ॥ ६०८ ॥
पढमं पंचविणं मतिसुयओहिमणकेवलावरणं । वितियं च नवविगप्पं निद्दापणदंसणचउक्कं ॥ ६०९ ॥
प्रागुक्तक्रमप्रामाण्यानुसरणात् प्रथमं ज्ञानावरणं पञ्चविकल्पं - पञ्चभेदम् । तानेवे भेदानाह - मतिश्रुतावधिमनः के
For Private & Personal Use Only
ww.jainelibrary.org