________________
धर्म
॥२२७॥
ज्ञानादिपरिणतिविघातनादिसामर्थ्यसंयुतं-ज्ञानदर्शनादिपरिणतिविघातसातासातानुभवादिसामोपेतं कर्म । संग्रहणिः तत्पुनः कर्म प्रतिनियतस्वभावभेदादष्टप्रकारं प्रज्ञप्तं वीतरागैः॥६०६॥ तानेव प्रकारानाह
पढमं नाणावरणं वितियं पुण होइ ईसणावरणं ।
ततियं च वेयणिजं तहा चउत्थं च मोहणियं ॥ ६०७ ॥ प्रथमम्-आद्यं ज्ञानावरणं ज्ञायतेऽर्थो विशेषरूपतयाऽनेनेति ज्ञानं-मतिज्ञानादि, आत्रियतेऽनेनेति आवरणं "करणाधारे वाऽनडि"त्यनद , आवृणोतीति वा "कृद्वहुलमिति” वचनात् कर्त्तर्यनट् ज्ञानस्यावरणं ज्ञानावरणं, द्वितीयं तु पुनर्भ
वति दर्शनावरणं, दृश्यते-सामान्यरूपतयाऽवगम्यतेऽर्थोऽनेनेति दर्शनं चक्षुर्दर्शनादि, तस्यावरणं दर्शनावरणं, तृतीयं च ४ वेदनीयं सातासातरूपेण वेद्यते इति वेदनीयं, तथा चतुर्थ च मोहनीयं मोहयति-विपर्यासमापादयतीति मोहनीयम्६०७13
आउयनामं गोत्तं चरिमं पुण अंतराइयं होइ ।
__ मूलप्पगडीउ एया उत्तरपगडी अतो वोच्छं ॥ ६०८ ॥ | आयुष्कं नाम गोत्रं, तत्र एति याति चेत्यायुः अननुभूतमेति अनुभूतं च यातीत्यर्थः, यद्यपि च सर्व कर्म एवं* भूतं तथापि पङ्कजादिशब्दवत् रूढिविषयत्वात् आयुःशब्देन पञ्चममेव कर्माभिधीयते । तथा नामयति-गत्यादि-IN
॥२२७॥
JainEducation.in
For Private
Personal Use Only
O
w.jainelibrary.org