________________
प्रभुकल्पना निर्विषयैव । यद्वा नैवास्ति भक्तेः कश्चनाप्यविषय इति-भक्तितरलितचित्ततया त्वयैव परिकल्प्यते इत्यलं खदर्शनानुरागाकृष्टचेतसा सह प्रसङ्गेन ॥ तदेवं युक्तिबलप्रवृत्तानुभवसामर्थ्यादात्मा भोक्ता सिद्धः॥५९६॥ सांप्रतं लोकत आगमतश्च भोक्तृत्वं साधयन्नाह
लोगेवि एस भोत्ता सिद्धो पायं तहागमेसुं च ।
अविगाणपवित्तीओ णय एतेसिं अपामन्नं ॥ ५९७ ॥ लोकेऽप्येष-जीवः प्रायो भोक्ता सिद्धः । तथाहि-सुखितं कंचन पुरुषं दृष्ट्वा लोके वक्तारो भवन्ति-'पुण्यवानेष यदित्थं सुखमनुभवतीति' । तथा आगमेषु च जैनेतरादिषु भोक्ता सिद्धः। “सवं च पएसतया भुंजइ कम्ममणुभा
वओ इयरं(भज)" तथा, "नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपी" त्यादिवचनात् । न चैतेषां लोकागमानामित्थं प्रवदर्तमानानामप्रामाण्यम् । कुत इत्याह-'अविगानप्रवृत्तितः' अविगानेन प्रवृत्तेः । नह्येवं लोकप्रतीतावागमेषु वा प्रवर्त्तमानेषु कस्यचिद्विवेकचक्षुषो विप्रतिपत्तिरस्तीति ॥ ५९७ ॥ इत्थं चैतदङ्गीकर्तव्यम् ,
इहरा कयवेफल्लं तब्भावे हंदि दिट्रबाधा तु । १ सर्वच प्रदेशतया भुज्यते कर्म अनुभावत इतरत् ।
मा
Jain EducatAZILOR
For Private & Personel Use Only
W
ww.jainelibrary.org