________________
धर्म
॥२२४॥
Jain Educati
प्रेरयति हिते शुभे कर्मणि हितकर्मनिमित्ते प्राणातिपातनिवृत्त्यादावेकं पुरुषम्, अन्यमितरस्मिन् अहिते कर्मणि अहितकर्मनिमित्ते प्राणिहिंसादी, इतीदं वीतरागस्य सतः कथं युक्तं ?, नैव कथंचनेति भावः । इत्थं चेत् प्रेरयति ततो नूनमस्य रागादिदोषप्रसङ्गः । अथोच्येत तत्कर्मकृतं- प्रेर्यमाणजन्तु कर्मकृतमिदं विचित्रतया प्रेरणं, तथाहि -यस्याशुभं कर्म हिंसादिफलं तमशुभे हिंसादौ व्यापारे प्रेरयति, यस्य पुनः शुभं हिंसानिवृत्त्यादिफलं तं शुभे इति न तस्य रागादिदोषप्रसक्तिरिति । अत्राह - 'तं पियेत्यादि' तदपि च शुभाशुभव्यापारनिमित्तं कर्म नतु तत्कृतमेव- प्रभुकृतमेव, तस्य शुभाशुभव्यापारनिमित्तकरणेऽपि रागादिदोषप्रसक्तिस्तदवस्यैवेति यत्किंचिदेतत् ॥ ५९५ ॥ अथ मा भूदेष दोष इति शुभाशुभव्यापारनिमित्तं कर्म न प्रभुकृतमिष्यते किंतु जन्तुकृतमेवेत्यत आह
इयरस उ कत्तित्ते सिद्धे सामत्थसत्तिसिद्धीओ ।
हुकपणा अविसया भत्तीए नत्थि वाऽविसयो ॥ ५९६ ॥
इतरस्य-जन्तोः कर्तृत्वे सिद्धे सति सामर्थ्यशक्तिसिद्धेः - सामर्थ्य प्रतिबन्धवैकल्यासंभवेन परंपरया कार्यकरणयोग्यता शक्तिस्त्वव्यवधानेन तयोः सिद्धेः या प्रभुकल्पना परैः क्रियते सा अविषया-निर्विषया, विषयस्य कर्मप्रेरणलक्षणस्यान्यत एव कर्तृजन्तोः सिद्धत्वात् । तस्य हि सामर्थ्य तावत्करणे सिद्धमतः प्रेरणेऽपि तद्भविष्यतीति
national
For Private & Personal Use Only
संग्रहणिः,
॥२२४॥
www.jainelibrary.org