________________
-
-
स्वभावत्वात् प्रेरकोऽनुमीयत इति। अत्राह-एयमित्यादि' एतत्कर्ता प्रेरणसामर्थ्यविरहित इतीदमसिद्धम् । कुत इत्याह-यत्-यस्मात्तस्यापि कर्मपरतत्रस्यापि कर्तुदृष्टं करणसामर्थ्य-कर्मनिष्पादनसामर्थ्य, ततः प्रेरणेऽपि तस्य सामर्थ्य भविष्यतीति न प्रेरणान्यथानुपपत्तिरीश्वरसिद्धौ प्रमाणमिति ॥ ५९३॥ पराभिप्रायमाह
___कत्तावि अह पभु च्चिय विचित्तकरणम्मि रागमादीया।
पेरगपगप्पणाए वि पुजुत्ता चेव दोसा उ ॥ ५९४ ॥ अथोच्येत मा भूदेष दोष इति कर्तापि कर्मणः प्रभुरेवेष्यते न जीव इति । आह-विचित्तकरणम्मि रागमाईया' यदि हि प्रभुरेव कर्मणां का स्यात् तर्हि स वीतरागत्वात्सर्वदा सर्वेषामपि शुभमेव कर्म कुर्यात् न कदाचित्कस्यचिदप्यशुभम् , अथ तदपि करोति तर्हि विचित्रकरणे सत्यवश्यं तस्य रागादयो दोषाः प्रामुवन्ति, तानन्तरेण विचित्रकर्म-1 करणानुपपत्तेः, अथ नासौ खयं शुभाशुभकर्मणां कर्त्ता किंतु जन्तून् तत्तत्कर्मकरणे प्रेरयति ततो न कश्चिद्दोषः । अत्राह-परगेत्यादि' प्रेरककल्पनायामपि पूर्वोक्ता एव रागादयो दोषाः प्राप्नवन्ति ॥ ५९४ ॥ तथाहि
पेरेति हिए एकं अन्नं इतरम्मि किं इमं जुत्तं ?। अह तकम्मकयमिणं तं पि य णणु तक्कयं चेव ॥ ५९५॥
ACANCESCALCCA00CCCCC
Jain Educati
o
nal
For Private & Personel Use Only
|www.jainelibrary.org