SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ धर्म ॥२२३॥ Jain Education यथासंख्यं धर्मार्थकामानपेक्षमाणः अकृतार्थः स्यात्, कृतार्थश्वासावभ्युपगम्यत इत्यभ्युपगमविरोधः ॥ ५९१ ॥ अत्र संग्रहणिः. परस्य मतमाशङ्कमान आह सिय तस्सेस सहावो फलनिरवेक्खावि पेरणं कुणति । तु एसो मुत्तत्ता चिट्ठ एमेव किं माणं ? ॥ ५९२ ॥ स्यादेतत्-तस्य ईश्वरस्य एष एव स्वभावो यत्फलनिरपेक्षोऽपि कर्मणः फलदाने प्रेरणं करोति ततो न फलरहितप्रवृतित्वादनालोचितकारितादोषो, नापि फलसापेक्षत्वेनाकृतार्थत्वप्रसङ्गः । अत्राह - 'ण उ इत्यादि' न तु नैव एप:ईश्वरो मुक्तत्वात् एवमेव-निर्व्यापार एव तिष्ठति, किंतु तथास्वभावत्वात्कर्मणः प्रेरणं करोतीति, अत्र किं मानं प्रमाणं?, | नैव किंचिदित्यर्थः । न चाप्रमाणकमाद्रियन्ते वचो विपश्चितः ॥ ५९२ ॥ अत्र परः प्रमाणमाहकम्मपरतंतओ जं पेरणसामत्थविरहितो कत्ता । एमसिद्धं तस्सविदिट्टं जं करणसामत्थं ॥ ५९३ ॥ यत् यस्मादेष कर्त्ता कर्मपरतन्त्रः, कर्मपरतन्त्रत्वादेव च कर्मणः फलदाने प्रेरणसामर्थ्यविरहितो, न चाप्रेरितं सत् कर्म नियत फलदानाभिमुखं भवति, अचेतनत्वात्, तेन कर्मणो नियतफलदानप्रवृत्त्यन्यथानुपपत्तिवशात् ईश्वरस्तथा For Private & Personal Use Only ॥२२३॥ w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy