________________
जं सो ण उ तं सत्तामेत्तेणं होइ फलदं ति ॥ ५७७ ॥ यद्-यस्मात्स-जीवः परिणामविशेषेण-शुभाशुभाध्यवसायविशेषेण करणभूतेन करोति कर्मणि-ज्ञानावरणीयादौ वीर्य-ज्ञानावारकत्वादिसामर्थ्य चित्रं-नानाप्रकारम् । एतदेव समर्थयते-'ण उ तमित्यादि' तुशब्दो हेतौ, यस्मान्न तकत्-कर्म सत्तामात्रेण फलदं भवति, किंतु प्रतिनियतवीर्योपेतम् ॥ ५७७॥ कुत इत्याह
सवेसि फलभावाणिययसहावा ण सवफलदत्तं ।
निययसहावत्तं चिय तग्गयपरिणामसावेक्खं ॥ ५७८ ॥ यस्मान्न सर्वेषां-कर्मणां फलभावानियतखभावात्-फलभावविषयानियतखभावभावात् सर्वफलदत्वं-सकलफलदातृत्वमस्ति, ततो न सत्तामात्रेण फलदम् । एतदुक्तं भवति-यदि हि सत्तामात्रेण सर्व कर्म वफलमुपयच्छेत् तर्हि प्रतिनियतफलविषयप्रतिनियतखभावाभावात् सर्वस्यापि कर्मणः सर्वफलदातॄत्वं भवेत् । तथाच सति युगपत्सदा सातासातमनुष्यदेवायुराद्यनुभवः स्यात् , न चैष संवेद्यते, तस्मान्न कर्म सत्तामात्रेण फलदं किंतु किंचित्तथाविधप्रतिनियतखभावतया कस्यचित्फलस्य प्रदायक, तच कर्मणां तथाविधप्रतिनियतखभावत्वं तद्गतपरिणामापेक्ष-खस-1
CLOCALSO RECORDCORROG
Jan Education
For Private Personal Use Only
R
ajainelibrary.org