________________
धर्म
॥२१९॥
Jain Education
कालाभावेऽभ्युपगम्यमाने सति लोकादिविरोध आदिशब्दात्प्रतिनियतसमयभाविशीतोष्णवनस्पतिपुष्पादिसंभवान्यथानुपपत्तिलक्षणप्रमाणविरोधग्रहणम् । कथं लोकविरोध इत्याह- 'तीयमादिववहारा' मकारोऽलाक्षणिकः, तीतादिव्यवहारात्-अतीतादिव्यवहारदर्शनात् । अथ परिकल्पितो जीवादिद्रव्यव्यतिरिक्तो यो द्रव्यभूतः कश्चित् स कालो नाभ्युपगम्यते यस्तु द्रव्यावस्थालक्षणः सोऽभ्युपगम्यत एव तदपेक्षया चातीतादिव्यवहार इति कथं | लोकादिविरोध इत्यत आह-'सावि न पुत्रिं विणा दिट्ठा' साऽपि - द्रव्यावस्था न पूर्वामवस्थां विना दृष्टा, सर्वस्यापि वस्तुनः परिणामित्वात्, परिणामस्य च कथंचित् पूर्वावस्थात्यागेनावस्थान्तरापत्तिरूपत्वात् । ततो द्रव्यावस्थालक्षणोऽपि कालः प्रवाहतोऽनादिमानेवेति न ज्ञातमसंगतमिति ॥ ५७५ ॥ उपसंहारमाह
इय तस्स अणादित्ते सिद्धे परिणामकरणजोएण ।
जीवोवि तस्स कत्ता सिद्धो च्चिय भवइ नायवो ॥ ५७६ ॥
इति : - एवमुक्तेन प्रकारेण प्रवाहतस्तस्य कृतकस्य कर्मणोऽनादिमत्त्वे सिद्धे सति परिणामकरणयोगेन - शुभाशुभा - व्यवसायलक्षणकरणसंबन्धेन जीवोऽपि तस्य-कर्म्मणः कर्त्ता सिद्ध एव भवति ज्ञातव्यः ॥ ५७६ ॥ कथमित्याह - परिणामविसेसेणं करेइ कम्मम्मि वीरियं चित्तं ।
For Private & Personal Use Only
संग्रहणिः,
॥२१९॥
www.jainelibrary.org