SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Jain Education मापो द्रव्यमिति । अतीतश्चासावद्धासमयश्च अतीताद्धासमयः, अतीतकाल इत्यर्थः स इह ज्ञातम् - उदाहरणम् । तथाहि-यथा अतीतकालोऽनुभूतवर्त्तमानभावोऽपि प्रवाहतोऽनादिमान्भवति तद्वत् कर्म्मापि भविष्यतीति ॥५७३॥ अथोध्येत तस्याप्यतीतकालस्य कथमनादिमत्ताऽवगम्यत इति ?, अत आह तसवय आदिभावे अहेतुगत्ता असंभवो चेव । परिणामिहेतुरहियं न हि खरसिंगं समुब्भवइ ॥ ५७४ ॥ तस्यापि च- अतीताद्धासमयस्य आदिभावे इष्यमाणे सति पूर्व परिणामिकारणाभावेनाहेतुकत्वादसंभव एव प्राप्नोति । न हि परिणामिहेतुरहितमिह जगति खरशृङ्गं समुद्भवन्नु (दु) पलभ्यते । यदि पुनः परिणामिहेतुमन्तरेणाप्ययमतीतः कालो भवेत्ततो विशेषाभावात् तदपि समुद्भवेदिति । स्यादेतत्, यदि कालो नाम कश्चिद्भवेत् तदा तस्यादिमत्त्वमनादिमत्त्वं वा चिन्त्येत, यावता स एव न विद्यते, तत्कथमतीतकालो ज्ञातमिति ॥ ५७४ ॥ तदयुक्तम्, यत आहकालाभावे लोकादिविरोधो तीयमादिववहारा । अह सो दवावत्था साविण पुत्रिं विणा दिट्ठा ॥ ५७५ ॥ १ मुपलभ्यते इति क - पुस्तके | For Private & Personal Use Only w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy