________________
धर्म
॥२१८॥
Jain Educatio
| युक्तस्य-कर्म्मवियुक्तस्य सतो मिथ्यात्वाद्यभावे सति कथमादावस्य कर्म्मणः करणमेव प्राप्नोति १, नैव कथंचन प्राप्नोतीत्यर्थः । कर्म्म हि कर्मान्तरस्य कारणं तच्च प्राक् न विद्यत इति ॥ ५७२ ॥ अत्राह
स कगं कम्मं ण यादिमंतं पवाहरूवेण ।
अणुभूयवत्तमाणातीतद्धासमय मो णातं ॥ ५७३ ॥
सर्व कर्म कृतकं न तु किमप्यकृतकं क्रियत इति कर्मेत्यन्वर्थात् नैवं प्रागुक्तदोषावकाशो, यत आह-न च तत्कर्म कृतकत्वेऽप्यादिमत् । कथमित्याह - प्रवाहरूपेण । ननु नियतव्यक्त्यपेक्षया प्रवाहतोऽपि कृतकत्वे सति कथमनादितेति चेत् । अत आह- 'अणुभूयेत्यादि' अनुभूतवर्त्तमानः भावप्रधानोऽयं वर्त्तमानशब्दः अनुभूतवर्त्तमानभावः, न हि अप्राप्तवर्त्तमानताकोऽतीतः कालो भवति । यदुक्तम् - " भवति स नामातीतः प्राप्तो यो नाम वर्त्तमानत्वम् । | एप्यंश्च नाम स भवति यः प्राप्स्यति वर्त्तमानत्वम् ॥ १ ॥” इति ॥ अतीताद्धासमयो 'मो' निपातः पूरणे, समयशब्दश्चेह कालसामान्यवाची नतु प्रतिनियततन्निर्विभाग विभागवाची, तस्यैकस्य प्रवाहरूपत्वायोगेन दृष्टान्तत्वानुपपत्तेः । समयश्चेह संकेतादिरपि भवति ततस्तद्यवच्छेदार्थमद्धेति विशेषणम् । अद्धेत्युक्तावपि विवक्षितार्थगतौ यत्समयशब्दोपादानं तदेकपदव्यभिचारेऽपि क्वचिद्विशेषणं प्रयोक्तव्यमिति प्रदर्शनार्थम् । तथा च प्रयोगः - पृथ्वी द्रव्य
For Private & Personal Use Only
संग्रहणिः.
॥२१८॥
www.jainelibrary.org