________________
CCCORRECARSCIE%
६ इष्येत तर्हि सर्वेषामपि युगपद्विनाशो भवेत् , न केषांचिदेव, तद्विबन्धककारणान्तराभावात् । तस्मात् घटादीनामपि ४
उपभोक्तदेवदत्तादिकर्मविपाकसामर्थ्यसमुद्भवो विचित्रतलायुपभोगः। उक्तं च कर्मनिमित्तं मुद्गपाकमधिकृत्य-"न च तत्कर्मवैधुर्ये, मुद्गपक्तिरपीक्ष्यते । स्थाल्यादिभङ्गभावेन, यत् क्वचिन्नोपपद्यते ॥१॥ इति" ॥ 'तत्कर्मवैधुर्ये' इति उपभोक्तकर्मवैधुर्ये । तथा कालोऽपि यदि समयावलिकादिरूपो लोकप्रसिद्धोऽभ्युपगम्यते तर्हि नासौ सुखदुःखाद्यनुभवनिबन्धनं, तुल्यकालानामपि सुखदुःखाद्यनुभववैचित्र्यदर्शनात् , अथान्यः कश्चित् तदा खभाववत् दूपयितव्यः । एवमन्यत्रापि यथायोगं दूषणं वाच्यम् । तस्मात्स्थितमेतत्-सुखाद्यनुभवस्य खकृतमेव कर्म हेतुरिति सिद्धो जीवः कर्मणां कर्तेति ॥ ५६६ ॥ अत्र पर आह
जीवो सुहाभिलासी दुक्खफलं कह करेति सो कम्मं ? ।
मिच्छत्तादभिभूओ अपत्थकिरियं व सरुउ त्ति ॥ ५६७ ॥ नन्वयं जीवः सुखाभिलाषी न कदाचनाप्यात्मनो दुःखमाशास्ते, ततो यदि खकर्मणामेष कर्ता ततः कथं कर्म | दुःखफलं करोतीति ? । उच्यते-मिच्छत्तादभिभूओ' "निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनमिति" वचनात् अत्र हेतौ प्रथमा, ततोऽयमर्थः-यस्मादयं जीवो मिथ्यात्वाधभिभूतस्तस्मात् कथंचिजानन्नपि दुःखफलं
ACCORECASSCORCAMPARA-
M
AS
Jain Eduron
धर्म. ३01॥
For Private
Personal Use Only
Collainelibrary.org