________________
धर्म
॥२१६॥
Jain Educatio
| कार्याणामेकरूपता प्राप्नोति । नहि कारणभेदमन्तरेण कार्यस्य भेदो युज्यते, निर्हेतुकत्वप्रसङ्गात् । अथ कार्यविचित्रतान्यथानुपपत्त्या नियतिरपि विचित्ररूपाऽभ्युपगम्यते, ननु तस्या अपि विचित्रता न तदन्यविचित्रभेदकमन्तरेणोपपद्यते, न खल्विहोपरेतरादिधरा भेदमन्तरेण विहायसः पततामम्भसामनेकरूपता भवति । “विशेषणं विना यस्मान्न तुल्यानां विशिष्टते" ति वचनात् । तेषां च तदन्येषा भेदकानां चित्रता किं तत एव नियतेः स्यात् तदन्यतो वा ? । तत्र यदि नियतेस्तर्हि तस्याः स्वत एकरूपत्वात् कथं तन्निबन्धना तदन्यभेदकानां चित्ररूपता ? । अथ विचित्रतदन्यभेदरूपकार्यान्यथानुपपत्त्या तस्या अपि विचित्ररूपताऽभ्युपगम्यते, ननु तर्हि सा तस्या विचित्ररूपता न तदन्यभेदकमन्तरेणोपपद्यत इत्यादि तदेवावर्त्तत इत्यनवस्था । अथ मा भूदेष दोष इति न तदन्यभेदकानां चित्ररूपता नियतेः सकाशादभ्युपगम्यते, किंत्वन्यत इति । तदप्ययुक्तम्, नियत्यतिरेकेणान्यस्य तव समये हेतुत्वेनानभ्युपगमादिति यत्किंचिदेतत् । यदपि च यदृच्छावादिभिरुच्यते - " यथा घटादीनां स्वकृतकर्मविपाकमन्तरेणाऽपि यदृच्छया | विचित्रघृततैलसुराद्युपभोगो भवति तद्वदेहिनामपि सुखदुःखोपभोगो भविष्यतीति" । तदपि मिथ्यादर्शनमोहनीयविलसितम् घटादीनामपि तदुपभोक्तृदेवदत्तादिकर्मपरिपाकसामर्थ्यादेव तथा तैलाद्युपभोग संभवात् । समानमृदाद्युपादानानां समानकुम्भकारादिकर्तृकाणां समानस्थानस्थितानां समानतैलाद्याधेयानां समानविनाशहेतूपनिपातानामपि केषांचिदेव भङ्गभावात् । यदि पुनरुपभोक्तृदेवदत्तादिकर्मपरिपाकसामर्थ्यात् घटादीनां न तथा तैलाद्युपभोग
ational
For Private & Personal Use Only
संग्रहणिः,
॥२१६॥
www.jainelibrary.org