________________
धर्म
॥२१४॥
Jain Educatio
भावस्य तुच्छरूपता गीयत इति चेत् आह - 'तद्धेउ इत्यादि' स विवक्षितमृत्पिण्डलक्षणो हेतुर्यस्य असौ तद्धेतुः स चासौ भावश्च - घटलक्षणस्तस्य रूपं प्रतीत्यासौ खभावस्तुच्छो ज्ञातव्यो, नतु खरूपेण, तेन न पूर्वोक्तदोषावकाशः ॥ ॥ ५५९ ॥ अत्राचार्य आह
जो चि सरूवभावो ण तउ च्चिय इयररूवभावोति । भावाभावविरोहा भिन्नसहावम्मि चित्तत्तं ॥ ५६० ॥
न य एव मृत्पिण्डस्य स्वरूपभावः स एवेतरस्य - घटरूपस्याभावः, भावाभावविरोधात् - भावाभावयोः परस्परं विरोधात् । तथाहि - यदि भावः कथमभावः अथाभावः कथं भाव इति । अथोच्येत - खरूपापेक्षया भावरूपता पररूपापेक्षया चाभावरूपता ततो भावाभावयोर्भिन्ननिमित्तत्वान्न कश्चिदिह विरोधदोष इति । अत्राह — "भिन्न सहावम्मि चित्तत्तं' भिन्नौ - परस्परविलक्षणौ स्वभावौ खपररूपापेक्षया भावाभावलक्षणौ यस्य स तथाभूतस्तद्रूपे मृत्पिण्डादाव - भ्युपगम्यमाने हन्त ! चित्रत्वम् - अनेकान्तात्मकत्वं स्वतन्त्रविरोधि प्राप्नोति ॥ ५६० ॥ अत्र पराभिप्रायमाह - सिय इतररूवभावो तु कप्पितो अंजसा ततो नत्थि । कह मितिपिंडाउ घडो तब्भावे ण खरसिंगं च १ ॥ ५६१ ॥
ional
For Private & Personal Use Only
%
संग्रहणिः.
॥२१४॥
Www.jainelibrary.org