________________
Jain Education
हेतुर्भवति नतु जीवः केवलोऽमूर्त्तः, तथाहि - सुखदुःखानुभवनिमित्तं कर्म तन्निमित्तश्च सुखदुःखानुभव इति कुतो जीवेन व्यभिचारः ॥ ५५३ ॥ पुनरन्यथा परो व्यभिचारमाचष्टे
मुत्तेनं वभिचारो ण सो वि जं चेतणासरूवो त्ति ।
सो दुक्खनिमित्तं निरुवमसुहरूवतो तस्स ॥ ५५४ ॥
मुक्तेन - सिद्धेनामूर्त्तत्वादित्यस्य हेतोर्व्यभिचारः, नहि स सकम्र्म्मा येन संसारिवत्तस्यापि कर्मपरिणामापन्नरूपतया मूर्त्तता परिकल्प्येतेत्यत्राह - यदेतदनन्तरमुक्तं तन्न । यत्-यस्मात् सोऽपि - मुक्तश्चेतनास्वरूप एवेष्यते, न सुखदुःखयोरनुभविता, तदनुभवनिबन्धनसा तासात वेदनीय कर्मणोरभावात् । अन्यच्च, सुखदुःख लक्षणसमुदयनिमित्तत्वममूर्त्तस्य निषिध्यते न केवलं सुखनिमित्तत्वं, न च स मुक्तो दुःखस्यापि निमित्तं, तस्य सकलौत्सुक्यनिवृत्तिलक्षणनिरुपमसुखस्वभावत्वात्, ततो न कश्चित्तेन व्यभिचारः । अपि च, मूर्त्तस्यापरिणामिकारणतया सुखदुःखनिबन्धनता प्रतिषिध्यते नतु परिणामिकारणतया, मुक्तश्च निरुपमसुखं प्रति परिणामि कारणं, तत्कथं तेन व्यभिचारः १, यदि पुनरसावपि स्वभावो मुक्तात्मवत् इष्यते तर्हि तस्यापि जीवत्वं सदा सुखित्वं च प्रसज्येत ॥ ५५४ ॥ तथा चाह - तस्सविय तहाभावे जीवत्तं चेव पावती वत्तं ।
For Private & Personal Use Only
jainelibrary.org