________________
धर्म॥२१२॥
Jain Education
अथोक्तप्रकारेण पराभ्युपगमप्रसङ्गभयान्मूर्त्त इति पक्षमपहाय अमूर्त्त इत्यभ्युपगम्यते, यद्येवं तर्हि 'तउत्ति' सकः खभावो न सुखदुःखनिबन्धनममूर्त्तत्वात्, यथा आकाशं, न ह्याकाशमसुमतामनुग्रहायोपघाताय चोपजायते, किंतु पुङ्गला एव, "जंमणुग्गहोवघाया जीवाणं पोग्गलेहिंतो " इति वचनात् । न चामूर्त्तत्वमन्तरेणान्यदाकाशस्यानुग्रहोपघातकारित्वाभावनिमित्तम् । ततो यद्यसावपि खभावोऽमूर्त्तस्तर्हि नैव सुखदुःखनिबन्धनं भवतीति । अत्र पर आह— 'जीवेणमित्यादि' यदुक्तममूर्त्तत्वान्न स खभावः सुखदुःखनिबन्धनमिति तत्र जीवेन व्यभिचारः, तस्यामूर्त्त - त्वेऽपि सुखदुःख निबन्धनत्वाभ्युपगमात् । अत्राह-'न हि सो एगंतओमुत्तो' हि - यस्मान्न सः - जीव एकान्तेनामूर्त्तो येन हेतोस्तेन व्यभिचारः स्यात् ॥ ५५२ ॥ कुतो नैकान्तेन सोऽमूर्त्त इत्याह
जमणादिकम्मसंतपरिणामावन्नरूव एवायं ।
Mario (r) rri व य तस्स हेतु त्ति ॥ ५५३ ॥
यत् - यस्मादयं - जीवोऽनादिकर्मसन्ततिपरिणामापन्नस्वरूप एव, क्षीरनीरवदनयोः सदा लोलीभावेनावस्थानात् । तथा च सति बीजाङ्कुरन्यायेन बीजमङ्करस्य हेतुरङ्कुरो वीजस्येत्येवंरूपेण तदेव कर्म परमार्थतस्तस्य- सुखदुःखानुभवस्य
१ यदनुग्रहोपघातौ जीवानां पुद्गलेभ्यः ।
For Private & Personal Use Only
संग्रहणिः
॥२१२॥
w.jainelibrary.org